SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra जिनवल्लभ ॥ १९ ॥ www.kobarth.org ( श्रीसि० परावेर्जेः ३-३-२८ ) इत्यात्मनेपदं । याः श्रीः तस्याः संबोधनं हे ये । जवो वेगो विद्यते यस्य तज्जवि । विशेषेण जयः परेषां हननं तस्मिन् विजये सति । वेः पक्षिणो जातो विजः । अः विष्णुस्तस्मिन् ए । हे विजये शङ्करप्रतीहारि । विजे भयं करोमि, ओविजी भयचलनयोः वर्तमाना ए । इः कामस्तस्य संबोधनं हे ए ॥ ९७ ॥ की भाति नभो ? न के च सरुजां भक्ष्या ? नृपः पाति कं ?, वादी पाशुपतो विवाद उदयदुःखः शिवं वक्ति किम् ? | निर्दम्भेति यदर्थतः प्रणिगदेद्रूपं विपूर्वाच्च तत्, मीनातेः कमपेक्ष्य जायत इति क्त्वाप्रत्ययः पृच्छति ? ॥ ९८ ॥ अव० – “भवद्यवादेशं” व्यस्तं द्विः समस्तं । भं नक्षत्रं विद्यते यत्र तत् भवत् । यवाः । देशं । हे भव शङ्कर द्य खण्डय वादे पक्षप्रतिपक्षपरिग्रहरूपेऽशं दुःखं । भवतस्तव क्त्वाप्रत्ययस्य यवादेशो भवद्यवादेशः तं इदं क्त्वाप्रत्ययं प्रत्युत्तरदातुर्वचनं । अयमत्र भावः - याद्दशं निर्दम्भशब्देनार्थतो रूपमभिधीयते, तादृशं विपूर्वस्य मीनातेः क्त्वाप्रत्ययस्य यत्रादेशे सति भवति । तथाहि — निर्दम्भशब्देन निर्गतमाय उच्यते, अनेनापि विमाय इति स एवार्थः ॥ ९८ ॥ स्मृत्वा पक्षिविशेषेण, जग्धं कमपि पक्षिणम् । वृष्णिवंशोद्भवो लक्ष्मी -मप्राक्षीत् किं समोत्तरम् ? ॥९९॥ १ बिभेमि इति टीकान्तरपाठः साधुः । For Private And Personal Use Only Acharya Shri Kalissagarsun Gyanmandir प्रश्नशतम् ॥ १९ ॥
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy