SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ www.kobabirth.org RECACARRORGACASS अव०-"यादवकङ्कः” व्यस्तसमस्तः । हे इ लक्ष्मि आद भक्षितवान् बकं पक्षिणं कः इति प्रश्नः । प्राह-हे यादव वृष्णिवंशोद्भव कङ्कः पक्षिविशेषः ॥ ९९ ॥ प्रपञ्चवञ्चनचणं, ध्यात्वा कमपि देहिनम् । विश्वम्भरा यदनाक्षी-ततः प्राप तदुत्तरम् ॥१०॥ अव०-"कोनालीकः” समवर्णजातिः। को ना पुरुषोऽलीकः ?। हे को पृथ्वि नालीको मूर्खः ॥१०॥ जात्यतुरगाहितमतिर्लक्ष्मीपतिमप्सरो विशेषपतिः। यैर्वर्णैर्यदपृच्छत्तैरेव तदुत्तरं प्रापत् ॥ १०१॥ अव०-"मेनकाजानेययुता" पूर्वोक्ता जातिः । माया इनो मेनः तत्संबोधनं हे मेन लक्ष्मीपते का आजानेययुता कुलीनाश्वयुता ? | उत्तरं-मेनका जाया यस्य स मेनकाजानिस्तस्य संबोधनं हे मेनकाजाने अप्सरोविशेषपते ययुता| ययोर्भावो ययुता अश्वता, जायाया जानिरिति विशेषलक्षणात् ॥ १०१॥ केन केषां प्रमोदः स्या-दिति पृच्छन्ति केकिनः।संगीतके च कीदृक्षाः, प्राह शंभुर्न भान्ति के ॥१०२॥ अव०-"नीरवाहरवेणवः” द्विर्गतः। नीरं जलं वहतीति नीरवाहो मेघो जीमूतस्तस्य रवः शब्दस्तेन वो युष्माकं । नीरवा निर्गतरवा अशब्दा वेणवो वंशा हे हर शङ्कर ॥ १०२॥ १ द्यूतकृत् इति टीकान्तरम् । २ घोटिकासमूहः इति टीकान्तरम् । For Private And Persons Only
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy