________________
Shri Mahavir Jain Aradhana Kendra
प्र० ४
www.khatirth.org
यस्यासौ तथा तं । हे अम्बु जल । धनं राति ददाति धनरा क्विप् तां धनरां धनदायिकां । उदासे उत्पाटितवान् उत्पूर्वोऽसू क्षेपणे परोक्षा ए। बत । हे बुधनराः पण्डितमनुष्याः ! सदा नित्यं जिनवरागमं जिनेन्द्रसिद्धान्तं सेवत मुदा हर्षेण ॥ ९४ ॥
का दुरितास दूषण - सान्त्वक्षतिभूमिरिति कृते प्रश्ने । यत्तत्समानवर्णं तदुत्तरं कथयत विभाव्य ॥ ९५||
अव० - "कामलालसामहेला" समवर्णप्रश्नोत्तरं । मलो दुरितं, आलं अविद्यमानदूषणं, साम समतां हन्ति सामहः, मलश्च आलश्च सामहश्च ते तथा तेषामिला भूमिः का ? इति प्रश्नः । अथोत्तरं - कामलालसा महेला मारलम्पटा स्त्री ॥ ९५ ॥
हंहो शरीर कुर्याः, किमनुकलं त्वं वयोबलविभाद्यैः ? | मदनरिपोर्टकीह-ग्जैनः कथमुपदिशति धर्मम् ? ९६
अव० - " जिनान्यजध्वंसदा" व्यस्तसमस्तः । जिनानि हानिं यानि वयोबलादिभिः । अजः कामस्तस्य ध्वंसं ददाति या साऽजध्वंसदा । जिनान् यजध्वं पूजयध्वं सदा नित्यम् ॥ ९६ ॥
विधत्से किं शत्रून् युधि नरपते वक्ति कमला ?, वराश्वीयं कीदृक् ? क्व च सति नृपाः स्युः सुमनसः ? । विहङ्गः स्यात्कीहरू ? क्व रजति रमा पृच्छति हर - प्रतीहारी ? भीरो किमिह कुरुषे ब्रूत मदनम् १९७
अव० – “विजये” गतागतचतुर्गतः । विजये विपूर्वी जि जये वर्तमाना ए, 'विपराभ्यां जेः' ( पा०१-३-१९ )
For Private And Personal Use Only
Acharya Shri Kassagarsun Gyanmandir