________________
ShriMahiyeJain ArachanaKendra
Acharyashagan Gyaan
प्रश्नशतम्
जिनवल्लभ- कुमुदैः श्रीमान कश्चि-द्दपात्रं प्रश्नमाह यं भूमेः। तत्रैवोत्तरमलभत् , कैरवनिवहैरमामत्र ॥ ९१॥ ॥१८॥
| अव०-"श्लोकमध्यस्थितसमवर्णप्रश्नोत्तरजातिः।" कैः बहै वहामि हे अवनि पृथ्वि रमां लक्ष्मी अत्र जगति, वह पापणे पञ्चमी ऐप् । अमा रोगास्तेषां अमत्रं भाजनं तस्य संबोधनं हे अमामत्र कैरवनिवहैः पद्मसमूहैः । अयमत्र भावः-यः किल कुमुदैः श्रीमान् स तैरेव लक्ष्मीमावहति ॥९१॥
सदाहिताः क विभाव्यते का ?, प्रावृष्युपास्ते शयितं क का कम् ।
दीर्घक्षणा वक्ति पुर:स्थिताऽप्यह-मवीक्ष्यमाणा प्रिय ! किं करोमि कम ?॥ ९२॥ अव०-"आयतनेत्रेतापयसिमा” व्यस्तसमस्तजातिः। आयतने गृहे । त्रेताऽग्नित्रितयं । पयसि जले । मा लक्ष्मीः। PS विष्णुं । हे आयतनेत्रे तापयसि मां कर्मभूतं ॥ ९२ ॥ लक्ष्मीर्वदति बलिजितं, त्वमीश! किं पीतमंशकं कुरुषे । अपरं पृच्छामि प्रिय!, किं कुर्वेऽहं भवच्चरणौ ?९३ अव०-"सेवसे" गतागतः। हे से लक्ष्मि । वसे परिदधामि, बस आच्छादने वर्तमाना ए। सेवसे सेवां कुरुषे ॥१३॥ प्रवीरवरशू(स)दकं किल जगुर्जनाः कीदृशं?, पयो वदति कीदृशीं नृपततिं श्रयन्त्यर्थिनः । । चकार किमगं हरिर्वदत विस्मये किं पदं ?, निनीषुरमृतास्पदं कथमिहाह जैनो जनान् ?॥९॥ अव०-"सदाजिनवरागमंबुधनरामुदासेवत” व्यस्तसमस्तजातिः। सदा नित्यं । आजिषु सङ्ग्रामेषु नवो नूतनो रागो
REACHERSALASAHEB
45OROADCCC
॥१८॥
For Private And Personal use only