SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ प्रश्नशतम् जिनवल्लभ-सरभसमभिपश्यन्ती, किमकार्षीःकंमम त्वमिन्दुमुखिानयनगतिपदं कीहक्,पूजयतीत्यर्थमभिधत्ते?८५ ॥१७॥ अव०-"अपप्रथमंगजं" द्विर्गतः। अपप्रथं विस्तारितवती अङ्गजं कामं । न विद्येते पकारात् प्रथमौ नकारौ यत्र | तत्तथा, गस्य जकारो यत्र तत् गजं, ततो यजतीति भवति ॥ ८५॥ विधुन्तुदः प्राह रविं ग्रहीतुं, कीदृक्षमाहुः स्मृतिवादिनो माम् । का वा न दैवज्ञवरै स्तुतेह, प्रायेण कार्येषु शुभावहेषु ?॥८६॥ | अव०-"राहोनिशविरलगम" गतागतः । हे राहो । अनिशि अरात्रौ अविरलो गमो यस्य स तथा तं, निशाया है निश् । मङ्गलरविशनिहोरा रविरादिभ्यः ( रवेरारभ्य ) होराशब्दः प्रत्येकं, प्रश्नस्तावत् ॥ ८६ ॥ ___ अमिज्वालादिसाम्याय, यं प्रश्नं श्रीरुदीरयत् । तेनैव समवर्णेन, प्रापदुत्तममुत्तरम् ॥ ८७॥ __ अव०-"कोपमानलाभाये" समवर्णप्रश्नोत्तरजातिः। का उपमा सादृश्यं अनलाभाये वस्तुनि अनलस्येव अग्नेरिव आभा च्छाया आद्या प्रथमा यस्मिन् तत् अनलाभाचं तत्र । उत्तरमाह-कोपमानलाभाद्या हे इ लक्ष्मि कोपश्च मानश्च लाभश्च कोपमानलाभाः ते आद्या यस्यां उपमायां सा तथा । अयमत्र भावः-अग्निज्वालासदृशः कोपः, आदिशब्दा-14 त्पर्वतादिः, ततः पर्वतसदृशो मानः, खञ्जनसदृशो लोभ इत्यर्थः । उत्तरेऽनुक्कापि आद्यशब्दात् माया लभ्यते, तया सहशा गोमूत्रिका अतीव वक्रा ॥८७॥ ॥१७॥
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy