________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org.
वदति हरिरम्भोधिं पाणिं श्रियः करवाणि किं ?, किमकुरुत भो यूयं लोकाः सदा निशि निद्रया ? ।। | मुनिरिह सतां वन्द्यः कीदृक् तथास्मि गुरुर्बुवे?, तव जडमते तत्त्वं भूयोऽप्यहं किमचीकरम् ? ॥ ८२॥
अव० – “असस्मरः ” वर्धमानाक्षरजातिः । हे अ हरे, त्वं अस प्राप्नुहि अस दीयादानयोश्चेति (त्यस्य ) रूपं । असस्म सुप्तवन्तः पस स्वप्ने ह्यस्तन्यां मे रूपं । सह स्मरेण वर्तते सस्मरः, न सस्मरोऽसस्मरः । स्मारितवान् स्मृ ध्यै चिन्तायां इञः अद्य० सित्वांरिदित्वात् अभ्यासस्य ( णिगः अद्यतनीसि त्वरादित्वादति अभ्यासस्य ( उपान्त्यस्य ) ॥ ८२ ॥ तये किमकुर्वतां परस्परं दम्पती चिरान्मिलितौ ।
मोक्षपथप्रस्थितमतिः, परिहरति च कीदृशीं जनताम् ॥ ८३ ॥
अव० –“ अतत्त्वरतां” द्विर्गतः । कामाय शीघ्रीभवतः । अतत्त्वे रताऽतत्त्वरता तां अतत्त्वरताम् ॥ ८३ ॥
हे नार्यः किमकार्षुरुद्गतमुदो युष्मद्वराः काः किल?, कुद्धः कामरिपुः स्मरं किमकरोदित्याह कामप्रिया ? | इच्छुर्लाभमहं मनोगृहगतं रक्षामि शम्भुं सदाऽपीति खं मतमूचुषे किल मुनिः कामाशिषं यच्छति ॥ ८४ ॥
अव० – “उपायंसतनोतुभद्रते" व्यस्तसमस्तजातिः । उपायंसत परिणीतवन्तः, नोऽस्मान् । अतुभत् विनाशितवान्, हे रते कामप्रिये, णभ तुभ हिंसायां अद्यतनी पुषादित्वादन् । उपायं स महेश्वरः तनोतु विस्तारयतु भद्र! ते तव ॥ ८४ ॥ १ सि, त्वरादित्वात् अत अभ्यासस्य इति शुद्धं प्रतिभाति ।
For Private And Personal Use Only
Acharya Shri Kassagarsuri Gyanmandir