SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra जिनवल्लभ॥ १६ ॥ www.khatirth.org स्तोकेऽल्पे । तीतेऽतीते, क्षते व्रणादौ । तरलनयना चञ्चनेत्रा मां कर्मतापन्नं अत्र प्रदेशे इयं स्मितास्यं यथा भवति तथा ईक्षतेऽवलोकयति ॥ ७८ ॥ राजन् ! कः समरभरे, किमकारयदाशु किं रिपुभटानाम् ? | कुच्छ अविलास पभण, केरिसं पिसुणजणहिययं ? ॥ ७९ ॥ अव०—“अहमलीलवंकं” भाषा चित्रकद्विर्गतः । अहं कर्ता, अलीलवं लूनवान्, के मस्तकं । अधमा कुत्सिता लीला यस्य स तथा हे अधमलील कुत्सितविलासिन्, वङ्कं कुटिलम् ॥ ७९ ॥ अ सुमुखि ! सुने सुनु सुश्रोणि मुग्धे, वरतनु कलकण्ठि खोष्ठि पीनस्तनि त्वम् । वद निजगुणपाशैः किं करोषीह केषां ?, सुगुरुरपि च दद्यात्कीदृशां मन्त्रविद्याम् ? ॥ ८० ॥ अव० - " नाहंयूनां " द्विर्गतः । नह बन्धने नाहं बन्धनं, यूनां तरुणानां पुंसां । नाहंयूनां अनहङ्कारिणामित्यर्थः ॥ ८० ॥ पृच्छामि जलनिधिरहं, किमकरवं सपदि शशधराभ्युदये ? | अलमुद्यमैः सुकृतिना - मित्युक्ते कीदृशः कः स्यात् ? ॥ ८१ ॥ अव० - “समुदलसः " द्विर्गतः सम् सामस्त्येन उत्प्राबल्येन अलसः शब्दितवान्, 'तुस इस लस शब्दे' ह्यस्तनी सिपि रूपं । समुत् सहर्षः, अलसः आलस्योपहतः ॥ ८१ ॥ For Private And Personal Use Only Acharya Shri Kassagarsuri Gyanmandir प्रश्नशतम् ॥ १६ ॥
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy