________________
ShriMahiyeJain ArachanaKendra
Acharya:shnkantissagarsunGyanmandir
किं कुर्वाते भवाब्धि सुमुनिवितरणादायकश्रावको द्राक् ?
श्रद्धालुः प्राप्तमंत्रायचितविधि परःप्रायशः कीदृशः स्यात् ? ॥ ६६ ॥ | अव०-"अविध्यंतरतः" । अविर्य व्यध ताडने इत्यस्य देवादिकस्य ह्यस्तन्यमि रूपं । तरतः पारं गच्छतः। अविधेरन्तो विनाशस्तत्र रतः स तथा ॥६६॥
कीदृगनिष्टमदृष्टं नुः, स्यादित्यक्षकीलिकाब्रूते। भणइ पिया ते पिययम,कए कहिं अभिरमइ दिछी॥६७॥ ६ अव०-"मुद्धेतुहरमणे" । मुदो हर्षस्य हेतवः तान् हरतीति मुद्धेतुहरं । अणे शकटकीलिके । हे मुग्धे तुह तव रमणे सुरतव्यापारे ॥ ६७॥
कीदृग्जलधरसमयजरजनी?, पथिकमनांसि किमकरोत्कस्मिन् ? ।
मधुरस्निग्धविदग्धालोकं, स्त्रैणं कीदृग भ्रमयति लोकम् ? ॥ ६॥ ___ अव०-"सज्जघनस्तननाभिनदध्वनि" । सजं घनस्य मेघस्य स्तननं शब्दितं यत्र सा तथा, अभिनत् भेदितवती, अध्वनि मार्गे । नाभिरेव नदः । सन्तः जघनस्तननाभिनदध्वनयो यस्य तत् ॥ ६८॥ पद्मस्तोमो वदति कपिसैन्येन भोः कीदृशा प्राक् ?,सिन्धौ सेतुर्यरचि? रुचिरा का सतां वृत्तजातिः?। को वा दिक्षु प्रसरति सदाकण्ठकाण्डात् पुरारेः?, किं कुर्याः कं रह इति सखीं पृच्छती स्त्री किमाह ॥१९॥
For Prve And Personal use only