________________
ShriMahiyeJain ArachanaKendra
Acharya Shn
a garson Gyaman
*******
धर्मेण किं कुरुत काः क नु यूयमार्याः?, कीदृश्यहिंसनफलेन तनुः सदा स्यात् ?।
पुंसां कलौ प्रतिकलं किल केन हानिः ?, कीदृग्व्यधायि युधि कार्जुनचापनादैः ? ॥ ६॥ ___ अव०-"सारतादिना, यामतागवि" मन्थानजातिः । याम ता गवि, विगतामया, सारतादिना, नादितारसा । याम गच्छाम, ताः लक्ष्मीः कर्मतापन्नाः, गवि देवलोके । विगतामया गतरोगा । सारतादिना प्रधानत्वादिना । नादिता
शब्दिता, रसा भूमिः॥ ६१॥ 18कीदृशः स्यादविश्वास्यः ?, स्निग्धबन्धुरपीह सन् । नस्थातव्यंचशब्दोऽयं, प्रदोषं प्राह कीदृशः?॥६२||
अव०-"वितथवचनः" । वितथं अलीकं वचनं यस्यासौ वितथवचनः । तश्च थश्च वश्च चश्च नश्च तथवचनाः, विगताः तथवचना यत्र स तथा, सायमिति सिद्धम् ॥ ६२॥
नृणां का कीगिष्टा वद ? सरसि बभुः के ? स्मरक्रीडितोष्टाः, साधुः श्रीशश्च सर्वे पृथगभिदधतो बोधनीयाः क्रमेण। कुर्वेऽहं ब्रह्मणे किं ? वदति मुनिविशेषोऽथ कीदृक् समग्रः?,
स्याकिंवा पङ्कजाक्षीसुखविमुखमना भुक्तभोगोऽभिदध्यात् ॥ ६३ ॥ अव०-“सा रामा रमयते न मनो नः" शृङ्खलाजातिः। सा लक्ष्मीः । सारा । रामाः सारसाः। हे मार काम ।
PASARARIS
For Private And Personal use only