________________
ShriMahiyeJain ArachanaKendra
Acharyash
agan Gyaan
प्रश्नशतम्
जिनवल्लभ-- अव०-"कजाक्षी वाचाऽस्मानहह सहसाऽचुक्षुभदरे" षोडशदलं कमलं विपरीतं युगलस्थापनं । करे हस्ते । जारे पर-
स्त्रीलम्पटे । क्षीरे दुग्धे । वारे पानीयाय । वार् इत्ययं शब्दः पानीयवाचकः। चारे चरे राजानो हि चरनेत्राः। स्मरस्थापत्यं स्मारिः तस्य संबोधनं हे स्मारे । नरे अर्जुने । हे हरे विष्णो । हरे हुजू हरणे इति धातुः वर्तमाना एरूपं चोर
यामीत्यर्थः । ५८ । सरे हारे । हरे शङ्करे । सारे प्रधाने वस्तुनि । हे चुरे चौर्य । क्षुरे नापितोपकरणे । भरे बाह्यदि द्रव्ये । दरे भये सति । कजाक्षी स्त्री वाचा वचनेन अस्मान् कर्मतापन्नान् अहह सहसा अचुक्षुभत् क्षुभितवती, क्षुभ सञ्चलने पुषादिद्वारेणाण ॥ ५९॥
जलनिधिमध्ये गिरिमभिवीक्ष्य, क्षितिरिति वदन किमाह विवादे ।
स्निग्धस्मितमधुरं पश्यन्ती, हरति मनांसि मुनीनामपि का ? ॥ ६॥ अव०-"नाचलोऽङ्ग रसा" गतागतः । न अचलः पर्वतः, अङ्ग इति कोमलामन्त्रणे, रसा पृथ्वी । सारङ्गलोचना सारङ्गा हरिणास्तद्वल्लोचने यस्याः सा तथा ॥६॥
SESUASAASAASAAC
॥ १२॥
१ प्रतिभातीदमशुद्धम् यतः "णिश्रिद्रुनुभ्यः कर्तरि चङ्' इति ण्यन्तादुचितोऽत्र चङ् । द्वित्वाभावः पुषाद्यङि स्वादन्यथा । अविषयस्तु न कणोऽपि प्रसङ्गस्य ।
For Private And Persons
Only