________________
Shri Mahavir Jain Aradhana Kendra
www.khatirth.org.
अव० - “पाप दयसे स्तभदेहभुजा दिवि पदं” द्विर्गतजातिः । हे पाप अधम, दयसे ददासि स्तभस्य बस्तस्य देहः कायस्तस्य भुक् तया, दिवि स्वर्गे, पदं स्थानं । पाश्च पश्च दश्च यश्च सेश्च स्तश्च भश्च देश्व हश्च भुश्च जश्च ते आदिर्यस्य, दश्च दश्च दौ, पश्च दौ च पदाः, विगताः पदा यस्मात्तत् विपदं तच्च तत् पवदनदपदं च । एतावताऽयमर्थ:- पावन १ पवन २ दवन ३ यवन ४ सेवन ५ स्तवन ६ भवन ७ देवन ८ हवन ९ भुवन १० जवन ११ एतान् शब्दान् वदति ॥ ३४ ॥
औषधं प्राह रोगाणां, मया कः प्रविधीयते । जामातरं समाख्याति, कीदृशो वठरध्वनिः ? ||३५|| अव०—“अगद शमः” । हे अगद औषध । शम उपशमः । न विद्यते गकाराद्दशमः ठकारो यत्र सोऽगदशमः, ततो वर इति भवति ॥ ३५ ॥
अग्रे गम्येत केन ? प्रविरलमसृणं किं प्रशंसन्ति सन्तः ?, पाणि जटी कं प्रणमति ? विधवा स्त्री न कीदृक् प्रशस्या ? । क्ति स्तेनः क वेगो ? रणभुवि कुरुतः किं मिथः शत्रुपक्षाबुद्वेगावेगजातारतिरथ वदति स्त्री सखीं किं सुषुप्सुः ? ॥ ३६ ॥
अव० – “हला संस्तरं सारयेतः" अष्टदलं कमलं । हला व्यञ्जनेन । हसं ईषद्धसितं । हे हस्त कर । हरं शम्भुं ।
For Private And Personal Use Only
Acharya Shri Kalissagarsun Gyanmandr