SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ ShriMahiyeJain ArachanaKendra Acharyash agan Gyaan HOMEMORRECORDC वीतस्मरः पृच्छति कुत्र चापलं, स्वभावजं ? कः सुरते श्रियः प्रियः । सदोन्मुदो विन्ध्यवसुन्धरासु, क्रीडन्ति काः कोमलकन्दलासु ? ॥२८॥ अव.-"अने कपाव ऽलयः" पूर्वोक्तेयं जातिः (अनेकपावलयः)। न विद्यते इ. कामो यस्यासी अनिः तस्य संबोधनं क्रियते हे अने अकामिन् । कपी वानरे। अस्य विष्णोर्लयः संश्लेषः । अनेकपा हस्तिनस्तेषामावलयः श्रेणयस्तथा ॥ २८॥ मूषकनिकरः कीदृक्, खलधान्यादिधामसु ? । भीरुः संभ्रमकारी च, कीगम्भोनिधिर्भवेत् ? ॥२९॥ अव०-"विलसद्मकरः” द्विः समस्तः । बिलान्येव सद्मानि गृहाणि बिलसमानि तानि करोतीति बिलसझकरः विलसन्तो मकरा मत्स्या यत्र स विलसद्मकरः ॥२९॥ किं लोहाकरकारिणामभिमतं ?सोत्कर्षतर्षातुराः, किंवाञ्छन्ति ?हरन्ति के च हृदयंदारिद्यमुद्राभृताम् । स्पर्धावद्भिरथाहवेषु सुभटैः कोऽन्योऽन्यमन्विष्यते?जैनाज्ञारतशान्तदान्तमनसः स्युःकीदृशा साधवः१३०४ I अव०-"अपराजयः" मञ्जरीसनाथजातिः। अयो लोहं । पयः पानीयं । रायो द्रव्याणि । जयो विजयः । न विद्यते परेषु आजिः संग्रामो येषां तेऽपराजयः॥३०॥ पापं पृच्छति विरतौको धातुः कीदृशःकृतकपक्षी ? उत्कण्ठयन्ति के वा,विलसन्तो विरहिणीहृदयम्?३१ For Private And Personlige Only
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy