________________
एकाक्षरं.
विचित्रका.
॥७५॥
सन्नपि श्लोके चित्रत्वेऽध्याहारादोषात् द्रष्टव्यः । इति लक्ष्मीविष्णुपक्षाश्रितोऽयमर्थों लेशतो दर्शितः ॥६॥ अथ कश्चिदन्ययूथ्यःस्वमानसान्तरप्रथमानासमानभक्तिव्यक्तिः स्वकीयदैवतं शम्भु पर्यष्टोत इति शम्भुपक्षाश्रितोऽर्थः प्रकाश्यते
रोरारेडरा रीरी र-रेरीरारैरुरीरम् । रुरोररुरु रे रोरु-रुरो रारिरुरारिर ॥ ४॥ ब्याख्या-ओ उ इत्यव्ययं संबुद्धौ ओ हे शम्भो त्वं ईर्लक्ष्मीः कर्मतापन्नाः रे नरेऽर्थात् स्वभक्तेऽराः प्रायच्छः इति कादिसंबन्धः। हे रोरारे! रोरा दरिद्रा आरस्य ईः लक्ष्मीर्यस्य तस्य संबोधनं तथा। अराः लक्ष्मीः। किंविशिष्टाः ? रं कामं रिणन्ति गच्छन्तीति ररीः कामार्थसहिता इत्यर्थः। ईः लक्ष्मीः पुत्रमित्रकलनधनधान्यसमृद्धिरूपाः कर्म । हे ररैरीर रं वजं तदेव रा द्रव्यं यस्य स इन्द्रस्तस्य री_न्तिरज्ञानविपर्ययज्ञानलक्षणा तां ईरयति निराकरोतीति अचि हे रैरीर । पुनः किंविशिष्टस्त्वं? आ समन्तात् यो राः स्वर्ण तस्य रुः रक्षणः (कः) । पुनः कीदृग्लक्षणलक्षितस्त्वं ?ई प्रत्यक्षार्थेऽव्ययं, ई प्रत्यक्षं अर्थात् स्वर्गक्षितिपातालरूपत्रैलोक्यस्य ऋणाति प्रयातीति क्विपि ईर् । अरं शीघं । पुनस्त्वं कीहक् ? रुः रक्षकः अर्थात् संसारभयस्य हे ओ शम्भो इति संबोधनं । पुनस्त्वं कथंभूतः? अररुः न विद्यते ररुर्भयं यस्य स तथा । उ कस्मिन् लक्ष्मीस्त्वमरा उ इति संबुद्धौ रे पुरुषे । त्वं किंभूतः ? रः तीक्ष्ण उरुविशालो रुः सूर्यः तद्वद्रोचते दीप्यते स्वकान्त्या यः स रोरुरुरः । पुनः कीदृक् ? रारिः कामस्यारिः। हे उरारिर उं ईश्वरं रपन्तीति उरा ईश्वरपानामग्राहिणः एवंविधा येऽरिणश्चक्रिणो रावणादयस्तान् रक्षति परेभ्य इति उरारिरः तस्य संबोधनं हे उरा रिर । इति
शम्भुपक्षाश्रितोऽप्यर्थप्रथनप्रकारप्रकटनप्रकारः॥४॥ ॥ इत्येकाक्षरं विचित्रकाव्यम् ॥
IOCHAKANCIALCARCIRCARAM
॥७५॥
For
And Personen