________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
ॐ
। द्विस्वरत्रिव्यञ्जनयुक्ता षट् श्लोकी ।
स रसासारसंसारं, संसारं तरसा रसात् । ततार तरसा तारं ससतां तारसारराः ॥ १ ॥
टीका - हे "तारं ससतां तारसारराः” तारमतिशयेन, ससतां सत्येन सह वर्तन्त इति ससन्तस्तेषां ससतां सम्यक् - तत्त्ववतां पुरुषाणां परमपुरुषनयनस्य तारः कनीनिका तद्रूपं सारं न्याययुक्तिसङ्गतोऽर्थः तदेव रा धनं यस्य तस्यामत्रण हे तारं ससतां तारसारराः । “सः" सकलाबालगोपालप्रसिद्धो भवान् (भगवान्) "तरसा" वेगेन । "तरसा " बलेन निरवधिध्यानरूपेण । ( रसात्) यज्जातनिर्वृतिरूपनियतानुयोगात् । "संसारं" भवं वार्धिवदगाधस्वरूपं । "ततार" तीर्णवान् । किंभूतं संसारं ? "रसासारसंसारं" रसै रौद्रादिभिः असारोऽनुत्तमः संसारः संसरणं परिभ्रमणं यत्र तं रसासारसंसारम् ॥ १ ॥
तान्तासात रसं तान्ता - सातान्तं संततातत । सारसारसतारान्त- रससारसरः सताम् ॥ २ ॥
For Private And Personal Use Only
Acharya Shri Kalasagarson Gyanmandr