________________
Shri Mahavir Jain Aradhana Kendra
एकाक्षरं. ॥ ७४ ॥
www.kobatirth.org
हे शेर ! रक्षतीति यः सरो य उः ईश्वरः तत्र पूजनार्थ रङ्गति गच्छतीति "क्वचिद्” (५-१-१७१) इति उभयत्रापि डे रोरः तस्य संबोधनं हे रोर । “रगु गतौ” इति रगुधातुः । आर प्राप इति क्रिया । न चेश्वरपूजनं ब्रह्मणोऽयुक्तमिति वाच्यं, यत उक्तं - "कोमलमर्चति कंसस्तावीशं न तु तावीशः । तस्मात्तमहमर्चामि शङ्करं विश्वशङ्करम् ॥ १॥ इति” । हे इरार इरां भुवं स्वप्रणतेभ्यो राति ददातीति हे इरार । हे रीरीर ! रीर्भ्रान्तिः विपर्ययेण वस्तुस्वरूपपरिज्ञानलक्षणा तस्याः क्षेपिणी इरा वाणी यस्य तस्य संबुद्धौ हे रीरीर । यदुक्तमनेकार्थनामकोशे - “इराम्भोवाकुसुराभूमिषु" इति इराशब्देन वाणी । किंविशिष्टस्त्वं ? रैरीः रैवत् कनकवत् रिणाति शोभते इति “रींशू गतिरेषणयोः” इति धातुः रैरीः । आः ब्रह्मन् इति | संबोधनं । किंविशिष्टः ? रैरुः रैवत् मेघवत् रुः शब्दो वेदोच्चारसमये यस्य स तथा । पुनः किंविशिष्टस्त्वं ? ईईर् ई इत्यव्ययं प्रकोपार्थे तं ईर्ते “ईरिक् गतिकम्पनयोः " कम्पयतीति ईर् दीर्घत्वं । अरं लघु इति क्रियाविशेषणं । रुवन्तीति क्विपि रुवः शब्दायमाना ये रोरा दरिद्वास्तेषां यत् रुर्भयं तस्य यत् रु रक्षणं तत् रचयतीति रुरोररुरुर संबुद्धौ । ई लक्ष्मीं रमते इति कृत्वा ईरो विष्णुस्तत्र वसतीति वसे: क्विपि कः ईरोः, ब्रह्मणो विष्णुनाभिभूतत्वात् । पुनः कीदृक् ? “ऋश" गतौ इति धातुः सर्वे गत्यर्था ज्ञानार्था इतिवचनात् ऋणाति जानाति अर्थात् सर्ववस्त्विति विचि गुणे च अर् इति सिद्धं । उरो हृदयं कर्मतापन्नं । पुनस्त्वं कीदृक् ? रस्य कामस्य अरिः वैरी, जितकन्दर्पत्वात् । पुन कीदृक्षः ? उ रारिर उ इत्यव्ययं संबोधनार्थे । रं तीक्ष्णं अरि चक्रं येषां ते रारिणः चक्रिणो जनार्दनादयस्तै राजते इति रारिरस्तस्य संबोधनं । इति ब्रह्मपक्षाश्रितोऽर्थः ॥ २ ॥
For Private And Personal Use Only
Acharya Shri Kalassagarsun Gyanmandr
विचित्रका.
॥ ७४ ॥