SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ ACANCEROSCHESSOCCASEX अनेन च विशेषणेन परमेश्वरस्य चक्रित्वावस्थाय बाह्यशत्रूणामपि विजयः प्रादुष्कृतो भवति । कस्मिन् ? उ रे नरे उ |संबुद्धौ । पुनस्त्वं किंभूतः ? रोराणां दरिद्राणां यद् रुः भयं तस्माद्रक्षतीति रोररुरः। अरा इति क्रिया व्यतारीत्। पुनः। है किंस्वरूपस्त्वं ? रिः “राक् दाने” इत्यस्य धातोः कस्यचिदादानेऽपीष्टत्वात् राति गृह्णाति सर्वद्रव्यपर्यायान् इति धातोरर्थे । कि.(इ) प्रत्यये "इडेत्पुसि चातो लुक्” (४-३-९४) इत्यनेन चातो लोपेच रिःज्ञानं, ज्ञानज्ञानवतोरभेदोपचाराच्च भग| वानपि ज्ञानमेवेति ज्ञानवानित्यर्थः । अनेन च विशेषणेन भगवतो ज्ञानातिशयः प्रतिपादितः । पुनस्त्वं कीदृक् ? हेउर! उना शम्भुना पूजार्थं रप्यते जप्यते इति उरः तस्य संबोधनं हे उर । उश्चोपलक्षणं सर्वदेवानां हरिहिरण्यगर्भपुरन्दरादीनां । ततः सर्वदेवपूज्यस्त्वं, वीतरागत्वादित्यर्थः। अनेन च संबोधनविशेषणेन परमेश्वरस्य पूजातिशयः प्रोक्तः। पुनस्त्वमवे विशिष्यते-हे अरिर अराश्चकाङ्गं विद्यन्ते यत्र तदरि, अरिणा चक्रेण राजते इत्यरिरः, तस्य संबोधनं अरिर । अनेन च संबोधनपदेन जगदीशितु विन्यामपि धर्मचक्रित्वपदव्यां पूर्व षट्खण्डभूखण्डसाम्राज्यलक्ष्मीपदव्यपि लक्षयांचक्रे ॥ इति श्रीमदरनाथस्यैकाक्षरस्तुतिगर्भवृत्तस्यार्थसमर्थनप्रकारो लेशतः प्रकटीचक्रे । इत्यरनाथस्तुतिः ॥१॥5 अथ तीर्थान्तरीयजनमनःप्रीतथे तेषामुपादेयतासिद्धये च देवतान्तरहिरण्यगर्भहरिहरपक्षाश्रितोऽप्यर्थः प्रस्तूयते रोरारेरार रीरीर, रैरीरा रैरुरीरं । रुरोररुरुरेरोर-झरो रारिरु रारिर ॥२॥ व्याख्या-कश्चन नरः श्रीब्रह्मलब्धप्रसादो जगत्कारं तमेव ब्रह्माणं भक्तिप्राग्भारभावितस्वान्तोऽभितुष्टाव । हे| | आःब्रह्मन् ! भवान् उरो-हृदयं आर-प्राप अर्थात् सुकृतिनां इति कर्तृक्रियादिसंबन्धः । अथ प्रत्यक्षरं योजना विधीयते । For And Pesuse
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy