SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ Shri.Mahavir Jain ArachanaKend एकाक्षरं. ॥७३॥ न अर्थात् भूमिसाम्राज्यं कर्मतापन्नं प्रथमपादस्थमेव । अराः प्रादाः इति चतुर्थपादस्थं । कस्मिन् ? उ इत्यव्ययं संबोधनार्थे विचित्रका. रो नरस्तत्र रे नरे इति तृतीयपादस्थं । इति कर्तृकर्मादिसंबन्धः।हे रोर! तीक्ष्णकोपोक्तित्यजक रा तीक्ष्णा या उ रोपोक्तय 'उ' इत्यव्ययं रोपोक्तिवाचि ता रहति त्यजति यस्तस्य संबोधनं स तथा। "रह त्यागे” इति धातुः। हे अर! इति जिनसंबोधनं । इरां भूमिमिति कर्म । पुनः किंविशिष्टः? रः कामो रीश्च भ्रान्तिस्तयोः ईरिणी क्षेपिणी इरा वाणी यस्य स तथा तस्य संबोधनं हे ररीरीर !। अनेन विशेषणेन वचोऽपायापंगमातिशयद्वयं सूचयांचके । रशब्देन कामः, कामश्चाभिष्वङ्गात्मा रागः, स च द्वेष विना न भवतीति द्वेषाव्यभिचारी । यस्य च रागो नास्ति, तस्य द्वेषोऽपि। यस्य चैतद्वयं नास्ति तस्यान्येऽपि क्रोधमानमायालोभमुख्या अपरेऽपि शत्रवोऽन्तरङ्गा निर्मूलं व्यपगता एव । एतेन विशेषणपदांशेन भगवतः श्रीअरनाथस्य सर्वान्तरङ्गारिविजयमाह । रागादिक्षेपिणी च यस्य वाणी विद्यते तस्य कृतरागादिक्षयस्य स्वयं वागतिशयपरमैश्वर्यं अनिवारितप्रसरमेव । पुनः किंविशिष्टस्त्वं? रैरीराः रो वजं, आ समन्तात् । ईयते क्षिप्यते शत्रु प्रति यैस्ते रैरिणो वज्रिणः तेषां संबन्धिनी या ई लक्ष्मीस्तां राति (ददाति) इति क्विपि रैरीराः। पुनः कीदृक्षलक्षणस्त्वं ? रैरुरीः राः स्वर्ण, रुः सूर्यः, तयोर्द्वन्द्वः, तद्वत् 'रौश' गतिरेषणयोरिति धातुः, अनेकार्थत्वाद्धातूनां कान्त्यर्थोऽपि रीधातुर्द्रष्टव्यः, ततः क्विपि रीः कान्तिर्यस्य स रैरुरीः, स्वर्णवर्णत्वात् जगन्नाथस्यारस्वामिनः ।। 1 ॥७३॥ अरं शीघ्रमिति क्रियाविशेषणं । पुनः किंविशेषणविशिष्टस्त्वं ? रुरोदैत्यविशेषस्य अरुः व्रणरूपः शल्यरूप इत्यर्थः, दैत्यविशेषोऽपि च देव एव, देवश्च प्रभासादीश्वरः, तस्य च चक्रवर्ती समुद्रादिमध्यस्थितः शरक्षेपकाले शल्यरूपो भवत्येव । + For And Person Use Only
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy