________________
Shri Mahavir Jain Aradhana Kendra
२० १३
www.kobatirth.org
। अथ एकाक्षरं विचित्रकाव्यम् ।
(रोरारे० काव्यम् )
ॐ नमः श्रीपार्श्वनाथाय । श्रीमदरस्वामिने नमः । अस्मिन्नपारसंसारसागरे निमज्जतां जन्तुव्रजानां पोततुल्यस्य जगत्रयी लोकनिर्मापितातुल्यवात्सल्यस्य भगवतः श्रीअरनाथस्य स्फुरदष्ट महाप्रातिहार्यलक्ष्मीसनाथस्य सप्तमसमग्रभरतभूचक्रिणः अष्टादशधर्मचक्रिणः कश्चिद्विपश्चित् कुलालङ्कारावचूलो विज्ञातसर्वतत्त्वातत्त्वविवेकमूलो भगवतोऽनन्तातिशयैश्वर्य सद्भावेऽपि मौलपूजाज्ञानापायापगमवचोरूप चतुरतिशयप्रकाशनपूर्व तस्यैव भगवतो नाममन्त्राक्षरसः क्षैरेवैतत्स्तुतिवृत्ताक्षरैः स्तुतिसमुद्भूतप्रभूतसुकृतप्राग्भारसमुपार्जनायानेनैव शब्दचित्रेण स्वख्यातिप्रख्यापनप्रसिद्धये चेमां स्तुतिं तस्यैव भगवतश्चर्करांचकार इति स्तुतिसमुत्पत्ति संबन्धः ॥
रोरारेरां ररीरीर, रैरीरा रैरुरीररं । रुरोररुरु रे रोर - रुरोऽरा रिरुरारिर ॥ १ ॥
व्याख्या - अथेदं पद्यमेकाक्षरं प्रत्यक्षरं व्याख्यायते । तथाहि —उ हे श्रीअर ! इति संबोधनं प्रथमपादस्थं । इरां भूमिं
For Private And Personal Use Only
Acharya Shri Kalasagarson Gyanmandr