________________
RESS
तन्नूनं भवतापि तीर्थपतिना चैतत्स्फुटं निर्ममे, युक्तायुक्तविचारणा यदि भवेत्स्नेहाय दत्तं जलम् (स०) १२ | टीका-युक्तायुक्तविचारणा यदि भवेत् स्नेहाय दत्तं जलं इति समस्या । जिनपते ! यत्त्वं अहलक्ष्मीलीलावतीं जिनविभूतिस्त्रियं । कथंभूतां ? प्रीतां प्रीतिपरां, रूपवती सुरूपां सती विद्यमानां, हित्वा त्यक्त्वा । रूपरसोज्झितां रूपं च रसः शृङ्गारादिस्ताभ्यामुज्झिता रहिता तां सीमन्तिनी रमयसे क्रीडयसि । तन्नूनं निश्चितं भवतापि तीर्थपतिना स्फुटं प्रकटं एतन्निर्ममे एतत् कृतं । एतत् किं ? चेद्यदि युक्तायुक्तविचारणा भवति, तदा स्नेहाय दत्तं जलं जलाञ्जलिर्दत्तः। एवंविधां निःशेषां जिनर्द्धिस्त्रियं त्यक्त्वा मुक्तिस्त्रियं रमयसे युक्तायुक्तविचारणा भवति तदैतत् निर्ममे१२
इत्थं योगीन्द्रचेतःकमलकमलभूर्मुक्तिकासारहंसः, कल्याणाङ्करकन्दः शिवमहिमरमामञ्जरीवल्लरीश्रीः। मन्त्रद्न्मेषबीजं भुवनजनवनोल्लासलीलावतंसः
श्रीपाश्वः स्यात्समस्यास्तवकुसुमकृताभ्यर्चनोऽभीष्टलब्ध्यै ॥ १३॥ टीका-श्रीपार्श्वनाथोऽभीष्टलब्ध्यै अभीष्टलाभाय स्वात् भवेत् । किंभूतः । इत्थममुनाप्रकारेण । समस्यास्तवकुसुमकृताभ्यर्चनः समस्यास्तव एव कुसुमं तेन कृतं अभ्यर्चनं पूजनं यस्य स तथा। पुनः किंविशिष्ट ? योगीन्द्रचेतःकमलकमलभूः योगीन्द्राणां चेतांसि योगीन्द्रचेतांसि, योगीन्द्रचेतांस्येव कमलानि, तेषु कमलभूः ब्रह्मा इव ब्रह्मा । पुनः