SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ ShriMahiyeJanAradhanaKendra winw.kobabrith.org Acharya Sh cagarsun Gyarmand मनोमुन्निननं नून-मुन्नमन्माननोननम् । नुन्नमेनोऽमुना नेमि-नाम्नाऽम्नानेन मामनु ॥५॥ टीका-“णुद प्रेरणे" इत्यस्य धातोः नुन्नं क्षिप्तं । किं तत् ? एनः पापं । केन ? अमुना नेमिनाम्ना। आम्नानेन आम्नानं अभ्यसनं पुनः पुनः उच्चारणं तेन । कथं ? अनु लक्षीकृत्य । कं? मां । एनः किंविधं ? मनोमुन्निम्ननं मनसो मुदू हर्षः तं निम्नयति अल्पं करोति । पुनः किंविधं? उन्नमन्माननोननं उन्नमन्ती उत्सर्पन्ती मानना पूजा तां ऊनयति लयतीत्यर्थः॥५॥ | नोनमुन्मानमानेन, मुनीनानेममाननम् । मीनानमिं नमन्नेमि-अनूनामामिमीम माम् ॥ ६॥ टीका-पुनः “अम द्रम” इत्यस्य धातोः आमिमीम आजगाम प्राप । कां ? मां लक्ष्मी । किंविशिष्टां ? अनूनां परिपूर्णा किं कुर्वन् ? नमन् नमस्कुर्वन् । के ? नेमि । किंविधं ? न ऊनं न रहितं । केन ? उन्मानमानेन “जलदोण|मद्धभारं, समुहासिओ य जो नव उ ( अट्ठसयमुच्छिओ य माणवओ)। माणुम्माणपमाणं, इय भणियं जिणवरिंदेहिं ॥१॥” इतिवचनात् प्रमाणविशेषेण । किंविधं ? मुनीनानेममाननं मुनीनां सप्तर्षीणां इनः स्वामी चन्द्रस्तद्वत् अनेमाऽखण्डा मा लक्ष्मीर्यस्य तत् , एवंविधं आननं यस्य मुनीनावेममाननं । तथा “मीङ् हिंसायां" इत्यस्य धातोः मीनानं हिंसन्तं ।। के ? ई काममित्यर्थः ॥ ६ ॥ | मुनीनमेनोमीनानां, निमाने नेमिमानिनम् । नेमिनामानमानाना-ममोमानममुं नम ॥७॥ SERRURECHERPESIS For Prate And Person Use Only
SR No.020759
Book TitleStotra Ratnakar Satik Part 02
Original Sutra AuthorN/A
AuthorJinvallabhsuri
PublisherYashovijay Jain Sanskrit Pathshala
Publication Year1914
Total Pages206
LanguageSanskrit
ClassificationBook_Devnagari
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy