________________
श्रीपार्श्वच.
वीरस्तवनं.
अथाशीारेण वीरप्रसादं स्तौतियावन्तः सन्ति विख्याता, अवर्जा नामिनः प्रभो । तावन्तः शत्रवो दूरं, भूयासुस्त्वत्प्रसादतः॥६॥
व्याख्या हे प्रभो ! हे वीर ! विख्याताः-प्रसिद्धायावन्तो-यावत्संख्याकाः। अवर्जा-अकाररहिता एवंविधा नामिनो |-नामिसंज्ञकाः स्वराः सन्ति सारस्वतमते इउऋलएऐओऔ इत्यष्टौ नामिनः सन्तीति । तावन्तस्तावत्संख्याकाः शत्रवो ज्ञानावरणीयादिकर्मरूपा अष्टौ त्वत्प्रसादतो दूरं भूयासुरिति स्पष्टम् ॥ ६ ॥ अथ तपोद्वारेण ऋषभमहावीरौ स्तौति
आद्यन्ताभ्यामर्हतां सुप्रसिद्धौ, यो चक्राते वार्षिकं सामिवर्षम् ।
विश्वाधीशौ वन्दनीयौ जनानां नित्यं वन्दे तावहं भक्तियुक्तः॥७॥ व्याख्या-अर्हता-जिनानां आद्यन्ताभ्यां कृत्वा । सुप्रसिद्धौ-विख्याती आदिनाथमहावीरौ । वार्पिक-वर्षपर्यन्तं तपः सामिवर्ष-पाण्मासिकं तपश्चक्राते इत्यन्वयः। सामीति खण्डार्थमव्ययं । ऋषभस्य वार्षिक वीरस्य पाण्मासिकमिति । भक्तियुक्तोऽहं तो जिनी नित्यं वन्दे इत्यन्वयः। कथंभूतौ तौ ? विश्वाधीशी-त्रिजगत्स्वामिनी । पुनः कथंभूती एतौ | जनानां वन्दनीयौ इति स्पष्टम् ॥ ७॥
SCIENCRECCA-NCCESCALCHITECE
॥
६
॥