________________
Shri Mahay Jain Aradhana Kendra
www.bobatirth.org
अथ वीरवाचा वर्णयति—
भूयांसीहाने हसां व्यञ्जनानि, भुक्त्वा भुक्त्वा भूयसा नैव तृप्तिम् ।
याता जीवास्तत्प्रभो तावकीनां श्रुत्वा वाचं वीतरागा बभूवुः ॥ ८ ॥
व्याख्या - इह संसारे जीवाः प्राणिनः भूयसाऽनेहसा-बहुना कालेन व्यञ्जनानि भुक्त्वा तृप्तिं संतुष्टिं नैव याता:नैव प्राप्ताः इत्यन्वयः । व्यञ्जनानीति कोऽर्थः ? अन्नपूर्वकं व्यञ्जनं भवति । अतोऽन्नानि शल्यादीनि व्यञ्जनानि शा कानि भुक्तवा ( स्वेत्या ) द्यं योज्यं । अथ द्वितीयोऽर्थः - वि इति विशिष्टानि अञ्जनानि कज्जलानि नेत्रेषु येषां तानि व्यञ्जनानि कलत्राणि । विशेषणशक्त्या विशेष्यः प्रतीयते । तानि भुक्त्वा इत्यादि पूर्ववत् । अथ तृतीयोऽर्थः - वि इति विविधानि च तानि अञ्जनानि च पुण्यापुण्यकर्माणि भुक्त्वा इत्यादि पूर्ववत् । हे प्रभो ! तत्तस्मात् कारणात् ते प्राणिनस्तावकीनां तवेयं तावकीना तां तव वाचं श्रुत्वा वीतरागाः - सहजसंतुष्टा बभूवुः ॥ ८ ॥
अथ वीतरागस्वरूपस्य दौर्लभ्यमाह
स्वामिन्मे सर्वपापानां कार्यायेत्संज्ञया समम् । ज्ञायते यदि सामर्थ्यं, त्वत्स्वरूपं लभेत्तदा ॥ ९ ॥
१ परस्मैपदं चिन्त्यम् (आत्मनेपदम नित्यमिति न्यायात् )
For Private And Personal Use Only
Acharya Shri Kassagarsuri Gyanmandir