________________
ShriMahiyeJanAradhanaKendra
Acharya Sh
cagarsun Gyarmand
ACCAMERA
Mयादिपदार्थाः संमिलिताः सन्ति, परं सूक्ष्मदृष्टयाऽसंमिलिता एव ते सन्ति(न्तो) लक्षणेन ज्ञायन्ते 'चलणसहावो धम्मो' इत्यादिवचनात् । अथवा 'कस्यापि नाहं, ममापि केऽपि न सन्ति' इति भावं स्वाभिप्रायं कथयामि इत्यादि ॥४॥ अथ निर्मलमत्याऽऽराधकत्वं दर्शयति
जैना अजैना उभये स्वरायं, संगृह्य मह्यां च विराधकाः स्युः। __ आराधका वा जिनपर्युपास्ते-स्तदन्तरं शुद्धधिया कृतायाः॥५॥ व्याख्या हे वीर ! जिनो देवो येषा ते जैनाः तद्विपरीताः शैवादयः । एते उभये च मह्यां पृथिव्यां विराधकाः त्वद्धर्मदूषकाः । वाऽथवा आराधकाः त्वद्धर्मोपासकाः स्युः। किं कृत्वा ? स्वरायं संगृह्य स्वराः शब्दास्तेषामायो ला-1 भस्तं गृहीत्वा शब्दज्ञानं ज्ञात्वा इत्यर्थः। तेषां मध्ये ये पठितमूर्खास्ते विराधकाः, ये च पण्डितपण्डितास्ते आराधकाः "शब्दब्रह्मणि निष्णातः परब्रह्माधिगच्छति" इति वचनात् । अथवा स्वरायमितिपदस्य द्वितीयमर्थमाह-स्वं नि रायं द्रव्यं संगृह्य तपोयोगशमादिक धर्मिजनानां द्रव्यं तत् गृहीत्वा । यदुक्तं हैमकोषे-"निर्ग्रन्थो भिक्षुरस्य स्वं, तपोयोगशमादयः" इति । अत्र किं भिन्नत्वं? तत आह-हे वीर ! जिनपर्युपास्तेः त्वादृशजिनानां सेवाया द्रव्यभावभेद-18 पूजायाः सकाशात् । कथंभूतायाः जिनपर्युपास्तेः कृताया निर्मापितायाः । कया? शुद्धधिया-निर्मलबुद्ध्या तस्याः सकाशात् तदन्तरं तेषां भिन्नत्वं वर्तते इति । अत्र लुम्पकादिमतमपि निरस्तमिति ॥ ५॥
For Prate And Person
Use Only