________________
ShriMahiyeJanAradhanaKendra
woinw.kobathrith.org
Acha
Shn
a garson Gyarmand
काले तेन वक्रादिभावेन हेतुना । तुच्छा अगभीराशयाः। एवं विधास्ते प्रसिद्धाः । प्रचुरतरविशः बहुतराः । प्राभवं 8/शुद्धमार्ग कथं लभन्ते ? अपि तु न प्राप्नुयुः । प्रभोर्जिनस्यायं शुद्धमार्गः प्राभवः तं जैनं शुद्धमार्गमिति । नु इति
वितर्के । अत्र किं चित्रं आश्चर्य? न किमपीत्यर्थः॥२॥ | अथ सर्वेषां तीर्थकराणां वर्णकद्वारेण श्रद्दधानतया स्तुतिमाह| लक्ष्मवर्णादयोऽनेके, वार्द्धिपक्षमिताहताम् । हवदीर्घप्लतभेदाः, सवर्णा इति मे मतिः॥३॥
व्याख्या-हे वीरजिन ! मे मम मतिर्ज्ञानं इति एवंप्रकारा वत्तते, त्वदुक्तं सर्वमेतत् ईदृशं श्रद्दधामीत्यर्थः। इतीति किं ? यत् वार्द्धिपेति० वार्धीनां समुद्राणां पक्षः सादृश्यधर्मस्तेन मितास्तुलिता अर्हन्तः गुणवर्णनादीनामपारत्वात् ते. षामहतां जिनानां अनेके बहवः लक्ष्मवर्णादयः पदार्थाः सन्ति इत्यन्वयः। कोऽर्थः ? लक्ष्माणि चिह्नानि यथा वृषो |गजोऽश्वः प्लवग इत्यादीनि ऋपभादिजिनानां क्रमेण ज्ञातव्यानि । लक्ष्मीवणां इति पाठे लक्ष्मीः संपत् यथा यीरस्य चतुर्दशसहस्रमितमुनीनां संपत् प्रोक्तेति । वर्णाः कायकान्तयः रक्तौ च पद्मप्रभवासुपूज्यौ इत्यादि । आदिशब्दोऽत्र प्रकारार्थः, तेन जिनानां शरीराणि आयूंषि इत्यादयः पदार्था गृह्यन्ते । कथंभूता लक्ष्मवर्णादयः ? हस्पेति, ह्रस्वेन लघुना, दीर्पण गुरुणा, प्लुतेन गुरुतरेण, भेदाः भिन्नाः । अथवा ह्रस्वादयो भेदा येषु ते। कोऽर्थः? प्रथमं लक्ष्मापेक्षया नेमिचिहं शंखो इस्वः, हस्ती पीढः, वृषभो मध्यम इत्यादि लोकरूढितः। अथ वर्णेन द्वौ जिनी श्वेती, द्वौ पीती च
१ मनुष्यो मानुषो ना विद इति हैमः.
C-RECRACHCROCECRECRACT
For Pe And
P
use Only