________________
Shri Mahavir Jain Aradhana Kendra
श्रीमुनिचं०
।। ५८ ।।
www.bobatirth.org
अव० - "वव विवी वु वे ऽवै वो ऽवौ वंवः” । ववौ वाति स्म । इश्व विश्व इः कामः विः पक्षी हे इवी ! उर्ब्रह्मा उरुपेन्द्रः उश्च उश्च सरूपाणामेकशेषः ऊ, अवतीति क्विप् मव्यवीति व्स्थाने ऊ ऊकारस्य वत्वे वू, स्वरो इस्वो, हस्वत्वं, हे बु । वुश्च वुश्च वू । हे वे पक्षिन् त्वं मां अब । ए विष्णौ । वो युष्माकं । अवौ ऊरणकें, तद्वाहनत्वादग्नेः । अवतीति ऊः, ऊ रक्षिका अंबा यस्य उकारस्य वत्वे वंवः ॥ १३ ॥ अन्तस्थासु अन्त्यवर्गो ( र्णो ) वः ॥ १४ ॥ कीदृक्षं मृगयोः कुलं वद सुधीः ? शीले शुभे चाक्षरं, शुचाशेखरयोस्तथा शशिनि यत्पूर्वं समाहारवत् ।
ब्रूते शंभरुचिर्जनः किमुदितो ? विष्णुश्च वनन् बलि,
sts स्मिंस्त्रिंशतया जने निगदितो वर्गः (र्णः ) कका लेखके ? ॥ १५ ॥
अव० -- “ शशांशिशी शुशुशेशैशी शौशशः " । मृगयोर्लुब्धकस्य कुलं शशान् अश्नातीति एवंशीलं शशाशि । शीलशुभशूचा शेखरशशिनः एषां पदानां यत् यत् पूर्वमक्षरं तस्य समाहारे शीशुशुशेश संबोधनं । ईशो देवताऽस्य ऐशः । अं विष्णुं शो तनूकरणे श्यति इति आतोऽनुपसर्गाडू डः (५-१-७६ आतो डोऽह्वावामः ) आलोपः, अशं अवतीति वित्रप्, मव्यवीति व्स्थाने ऊ, उपधया सह अवर्णादूटो० औ अशावः, शं सुखं शस् हिंसायां क्विप्, प्रथमा सि, व्यञ्जनाच्च सिलोपः, अशौशंशः विष्णुः । त्रिंशो वर्गः (र्णः) शः ॥ १५ ॥ इति द्वादशवर्गस्यावचूरिः ॥ इति प्रश्नावलिः ॥
For Private And Personal Use Only
Acharya Shri Kaliassagarsun Gyanmandir
प्रश्नावलिः
॥ ५८ ॥