________________
Shri Mahavir Jain Aradhana Kendra
श्रीमुनिचं०
॥ ५५ ॥
www.batirth.org
कू, कुत्सिते कू कुकू, केका मयूरध्वनिविशेषः । कामः - स्मरः चक्रवाकद्वयं च पृच्छति — कः पक्षी बकं प्साति भक्षयतीति । हे ए काम हे कोकौ ! कंकः पक्षी वर्क अत्ति । बालकानां मातृकायां का वर्णसंहतिर्भण्यते ? इति काव्यार्थः ॥ १ ॥ का वर्णद्वितयी त्रिविष्टपधुनीं ब्रूते युता बिन्दुनो ? कीदृक्षं शिवयोर्युगं ? तरुढया ब्रूयुः क्व पूर्वे सति ? अर्थान् कांश्चिदनुक्रमेण चतुरैः शैलश्च कामस्तथा, कीदृक्षो हिमवानिति प्रवदतो वर्ग (र्ण) स्तृतीयश्च केः २
अव० – “गर्गा, गि गी गुगूंगे ऽगै, गोगोगंग: "” । गगावर्णद्वयी बिन्दुना सहिता सती त्रिविष्टपधुनीं गंगां ब्रूते । शिवश्च शिवा च तद्युगं कीदृशं उच्यते ? । अगि अगः पर्वतः विद्यते यस्य तत् । तरुदयाश्चत्वारो वर्णाः कस्मिन्नक्षरे पूर्वे सति चतुरोऽर्थान् ब्रूयुः ? गोगुगूगे एभिर्वर्णैः पूर्वस्थितैः गीतगुरुगूढगेयलक्षणान् चतुरोऽर्थान् ब्रूयुः । शैलः पर्वतः कामश्च पृच्छति - हिमवान्-हिमाचलः कीदृक्षः ? हे अग हे ए ! गोगोगंगः प्रणिगद्यते, गां गच्छतीति गोग ईश्वरः, अव रक्ष पालने अव (बु), गोगमवतीति क्विप् मव्यवि सिवि ( श्रिवि) ज्वरित्वरे रुपांत्येन ( ४-१-१०९ ) अनेन व ऊः, अवर्णात् ऊटो वृद्धि: (१-२-१३ ऊटा ) औ, गोगौः गंगा यत्रेति व्युत्पत्त्या । वर्ग (र्ण) स्ततीयः कः कथ्यते ? इति ॥ २ ॥ कीदृग्भूरिसरारि राजति सरो' ? वृत्तान्यवत् पृच्छेति ?, द्वित्वं प्राप्तमवोचदव्ययपैदं ? किंचित्तथा श्रीरपि । शोकः किंप्रभवो वदन्ति कमलारक्षित्वमुक्तं च किं पश्चाच्चन्द्रकलामितः स्वरततेर्वर्णश्च वर्गश्च कः ॥३॥
अव० - "ततति तीतु तू ते तैतोऽतीत तः” । भूरिसरारि ! सरः कीदृग् भाति ? तताति तता आतयो जलजीवविशेषा यत्र तत्, आटिरातिः सराति (रि) श्चेत्येकार्थाः । वृत्तान्यवत् किंचित पृच्छति, तथाऽव्ययपदं द्वित्वं प्राप्तं
For Private And Personal Use Only
Acharya Shri Kassagarsuri Gyanmandir
प्रश्नावलिः
।। ५५ ।।