________________
Acharya h
isagarsun Gyanmar
AKARSAROKAISEAR
। श्रीमुनिचन्द्रसूरिकृता (?) ।प्रश्नावलिः ।
(सावचूरिः) मगुस्त्री परिपृच्छतीदमुदिता ब्रह्मांगजा कीदृशी?, प्रश्नं व्याहरतो भुवावपशदे रम्येह का केकिनाम् ? कामश्चक्रयुगं च पृच्छति बकं कःप्साति पक्षी हठा-दालानां वद मातृकोपरि कथं पापठ्यते संहतिः॥१॥
अव०-"ककोकि की, कुकू के कै, (ए)कोको कंकः"।द्वादशवर्गा(ण)णामक्षरगमनिकामात्रं लिख्यते। यथा-मद्गुर्ज|लकाकः तस्य स्त्री इदं पृच्छति-ब्रह्मणः मुता कीदृशी उच्यते ? काकः प्रत्युत्तरं दत्ते तां प्रति-हे ककाकि!की सरस्वती कथ्यते, कं जलं तत्र काकी तस्याः संबोधनं हे ककाकि, को ब्रह्मा तस्यापत्यं “इणत" (६-१-३१ अतइञ्पा०)इप्रत्ययः, नदादित्वात् ई की। अपशदे कुत्सिते भुवौ पृथ्व्यौ प्रश्नं व्याहरतः पृच्छतः-इह भुवि केकिनां मयूराणां का रम्या मनोज्ञा | उच्यते ? हे कुकू केका कुश्च कुश्च कूसरूपाणामेकः शेषः कु, अग्रे प्रथमा औ,इदुतोऽस्त्रेरीदूत् (१-४-२१) इत्यनेन ऊ
For Pale And Peso
Use Only