________________
Shri Mahavir Jain Aradhana Kendra
जयतिलक॥ ५४ ॥
www.batirth.org
अथ नायकस्थाने बन्धुकस्वस्तिक चित्रस्थापना
तातोपमा मानविहीन देहा, हावादिना नाकिनराबलाभिः ।
भिन्ना न येऽये स्वबलैरमेया, याचे रमामादरभाविनीं तान् ॥ १३ ॥
व्याख्या - ये जिना नाकिनराबलाभिरमर्त्यमर्त्य नायिकाभिः 'हावादिना' हावभावविकारेण 'न भिन्ना' न मनागपि क्लिन्नाः । किंविशिष्टाः ? 'तातोपमाः' पितृतुल्याः । अपरं किंविशिष्टाः ? मानविहीनदेहा अभिमानवर्जितदेहाः । अये इत्यामन्त्रणे । अपरं किंविशिष्टा ? स्वबलैरमेयाः निजवीर्यैरप्रमेयाः । तान् जिनान् अहं 'रमां' लक्ष्मीं 'याचे' मार्गयामि । किंविशिष्टां रमां ? 'आदरभाविनी' आदरेण तपोविधानध्यानलक्षणेन भवतीत्येवंशीला आदरभाविनी तां मुक्तिलक्षणामित्यर्थः ॥ १३ ॥
अथ चतुर्थचित्रस्तवसमाप्तिवृत्तमाह
इत्थं बन्धुकनायकेन रुचिरा सत्कण्ठभूषाकरी, येषां नाममयैः सुवर्णमणिभिर्हारावली निर्मिता । | चारित्रप्रभदीक्षितस्तुतपदा देयासुरुच्चैर्जिना-स्ते श्रीसूरिपदाज्जयादितिलकस्यास्यापि मे मङ्गलम् ॥१४॥ व्याख्या - पूर्ववत् ॥ १४ ॥
॥ इत्यागमिकश्रीजयतिलकसूरिकृता विहरमाणशाश्वतजिन चतुर्विंशतिकाहारावलीचतुर्थचित्रस्तवटीका ॥
For Private And Personal Use Only
Acharya Shri Kissagarsuri Gyanmandir
चतुर्विंश.
॥ ५४ ॥