________________
Shri Mahavir Jain Aradhana Kendra
www.khatirth.org
अथ नायकस्थाने वज्रबन्धविचित्रस्थापना -
भाव्या जिना मेऽत्र भवन्तु तुल्य- श्रियः सुरेनवजसेव्यपादाः । दानादिधर्मान्वितधौततत्त्वो-पदेशदानस्थितये स्थिराभाः ॥ १३ ॥
व्याख्या- 'अत्र' संसारे 'भाव्या' भविष्यन्तो जिना 'मे' मम 'दानादिधर्मान्वितधौत तत्त्वोपदेशदान स्थितये भवन्तु' दानमादि येषां ते दानादयः, ते च ते धर्माश्च दानादिधर्माः तैरन्वितानि धौतानि निर्मलानि तत्त्वानि तेषामुपदेशास्तेषां दानं तस्य स्थितिस्तस्यै सन्तु । किंविशिष्टाः ? 'तुल्यश्रियः' समानलक्ष्मीकाः । अपरं किंविशिष्टाः ? 'सुरेनत्रज| सेव्यपादाः' अमरस्वामिसमूहाराध्यचरणाः । अपरं किंविशिष्टाः ? 'स्थिराभा' निश्चलकान्तयः । इति वृत्तार्थः ॥ १३ ॥ अथ समाप्तिवृत्तमाह-
इत्थं नायकवज्रबन्धरुचिरा सत्कण्ठभूषाकरी, येषां नाममयैः सुवर्णमणिभिर्हारावली निर्मिता । चारित्रप्रभदीक्षितस्तुतपदा देयासुरुच्चैर्जिना-स्ते श्रीसूरिपदाज्जयादितिलकस्यास्यापि मे मङ्गलम् ॥१४॥ व्याख्या -- पूर्ववत् ॥ १४ ॥
॥ इत्यागमिकश्रीजयतिलकसूरिकृता हारावलीतृतीयचित्रस्तवटीका ॥
For Private And Personal Use Only
Acharya Shri Kassagarsuri Gyanmandir