________________
अथ द्वादशवृत्तमाहश्शक्तिरासीन्मुनिसुव्रत | श्रीतोऽपि ते सद्वतखण्डना
भो यथा विश्वविसारधा | म,
| थाऽतिविश्वं सुमतिर्दधा | ति ॥ १२॥ व्याख्या-हे मुनिसुव्रत जिन ! श्रीसुतोऽपि कामोऽपि, ते तव, सद्वतखण्डनासु प्रधाननियमभङ्गेषु, निःशक्तिरासीत् अक्षमो बभूव । अथ द्वितीयार्धव्याख्या-ब्रनो रविर्यथा येन प्रकारेण विश्वविसारि जगद्व्यापि धाम तेजो दधाति धारयति, तथा तेन प्रकारेण सुमतिर्जिनः अतिविश्वं विश्वातिगं धाम दधातीत्यर्थः॥ १२॥
अथ पदकस्थाने स्वस्तिकचित्रमाहनरानराणाममरासुरेन-नवीनलक्ष्मी ददतो नतेनानमाम्यतीताननघाननेन,नवेन नुत्वा न न मस्तकेन१३
व्याख्या-अतीतान् अनघान् जिनान् , अनेन नवेन स्तवेन, नुत्वा स्तुत्वा, मस्तकेन शिरसा, न न नमामि । द्वौ नौ प्रकृतमर्थ गमयतः। अपि तु नमाम्येव । किंविशिष्टान् ? नतेन नमनेन नरानराणां नरा मनुष्या अनरा देवाः,
For Private And Persone
ly