________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एकादशीतत्त्वम्। विकल्यायोगात् एकमतादौनां प्रतिनिधित्वमेव। तदा तु प्रतिनिधौ यथा श्रुतमन्त्रपाठः। समवेतार्थता तु गौण्या लक्षणया वेति। तथाच प्रथमाध्याये कात्यायनसूत्रम् । 'शब्दे अविप्रतिपत्तिरिति'। प्रतिनिहितद्रव्ये श्रुतशब्दः प्रयोज्यः। श्रुतद्रव्यबुद्या प्रतिनिध्यपादानात् शब्दान्तर. प्रयोगे द्रव्यान्तरबुद्धिप्रसङ्गात्। यथा 'अग्न्यभावे तु विप्रस्य पाणावेव जलेऽपि वा' मत्स्यपुराणदर्शनात् जलास्त होमपक्षे अग्नौ करिष्ये इत्यनूह एव प्रयोग इति। अतएव यज्ञपार्श्व: । 'तैलं प्रतिनिधिं कुर्याद् यज्ञार्थे याज्ञिको यदि। प्रकत्वैव तदा होता ब्रूयाद् तवतौमिति' अत्र द्रव्यपदमुपलक्षणम्। एवं सर्वप्रतिनिधावेव न उहो न बाधः। किन्तु अविकत एव मन्त्रः पठनोय इति एतेन यौगिकोक्तम् । 'एकभक्तन यो विप्र उपवासबतञ्चरेत्' इति । उपोष्य नक्तेन विभो इत्यादिषु उपवास पदप्रयोगान्मासमग्निहोत्रं जुहोतौतिववाम्रोऽतिदेशात् । प्राप्तस्य ऊहेन प्रयोग इति तथा समवेतार्थाय एकाहारादिपदं प्रयोज्यमिति हेमाद्रिणा उत्तमपि निरस्तम् । एवं नरं पञ्चत्वमागतमिति न लिङ्गोहः स्त्रोपंदाहस्य समविधाने प्रकृतिविकृतिभावाभावात्। न च वैभक्ति कार्थस्त्वविशिष्टबोधात् स्त्रियां बाध इति वाच्यं प्राथमिकत्वाइलोयस: प्रातिपदिकार्थस्य समवेतत्वेन स्त्रीपक्षेऽपि विनियोगात् किन्तु वेभक्तिकलिङ्गस्य स्त्रियां प्रयोगसाधुतामात्रं पुमि तु अर्थ साधुतापि। श्रतएव एकपाशिके देने पशो आम्नातस्य अदिति: पाशं प्रमुमोक्त इति। नि:मन्दिग्धार्थवाशप्रातिपदिकलिङ्गन विनियोगो न तु पश्चाद्भाविना बहुवचन बहुपाशिकायां विक्कताबुत्कर्षः । नापि प्रकतावेव पाशपदे अवयवलक्षणा किन्तु प्रयोगसाधतयैव बहुवचनस्य इत्युताम् एवञ्च 'एतदः पितरो
For Private and Personal Use Only