________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एकादशीतत्त्वम् ।
८५
सन्मोहात् नरके पच्यते ध्रुवम्'। अतएव पुरखरणचन्द्रि कायाम्। 'मुसुम्ना वर्मना पुष्यमाघ्रायोहासयेत् सुधीः । निर्माल्य शिरमा धायं सर्वाङ्गेष्वनुलेपनम् । नैवेद्यञ्चोप. युञ्जौत दत्त्वा तद्भक्तिशालिने'। नन्दिकेश्वरपुराणे। 'दत्त्वा नैवेद्यवस्त्राणि नाददौत कदाचन। त्यक्तव्यं शिवमुद्दिश्य तदा दानेन तत्फलम्' इति शिवदत्ते विशेषः। स्मृतिः । 'ब्रह्मचारिग्रहस्थैश्च वनस्थयतिभिः सह। भोक्तव्यं विष्णुनैवेद्य नात्र कार्या विचारणा'। 'यत्तु यदन्तकारं नैवेद्य भुक्ता कच्छ्र यतिश्चरेत्' इति वचनं तहिष्णुनैवेद्येतरपरम्।
अथ जलाशयोत्सर्गः। 'प्रदद्यात् सर्वभूतेभ्यो जलपूर्ण जलाशयम्' इति मत्स्यपुराणाज्जलाशयोमर्गस्य सर्वभूतसम्म दानकत्वेनापकष्टचेतनोह श्यकत्वादुई श्यगतस्वामित्वाजननात् यागत्वम्। तथाच श्राइविवेकः। देवतोह श्य कद्रव्यत्यागो यागः। देवतात्वञ्च वेदमे यत्यागोह श्यत्वम्। उद्देश्यत्वञ्च तस्येदमित्यारोपविषयत्वमिति। अतएव जलाशयोत्सर्गसुपक्रम्य मत्स्यपुराणे 'प्राप्नोति तट्यागबलेन भूयः' इति यागत्वेनाभिहितम्। ततश्च तज्जलं खखत्वदूरीकरणेन नद्यादिवत् माधारणीकृतम्। 'सामान्य सर्वभूतेभ्यो मया दत्तमिदनलम्। रमन्तु सर्वभूतानि स्नानपानावगाहनः' इति मन्त्रलिङ्गादुपादानं विना कस्यापि न स्वत्वमिति। ततश्चान्य. यागवदुत्तरप्रतिपत्तेरश्रुतत्वेन साधारणजलस्य परिग्रहमात्रेण गोतमोतेन नात्र स्वामित्वश्रुतेर्यजमानस्यापि तथात्वेन खामित्वात् तत्र स्नानादावदोष इति। तथाच गोतमः । 'स्वामी ऋकथक्रयसंविभागपरिग्रहाधिगमेषु । ब्राह्मणस्याधिकं लब्ध क्षत्रियस्य विजितं निर्विष्ट वैश्यशूद्रयोः' इति परिग्रहोऽनन्यपूर्वस्य जलपकाष्ठादेः खोकार इति मिता
८-क
For Private and Personal Use Only