________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
८२
Acharya Shri Kailassagarsuri Gyanmandir
एकादशीतत्त्वम् ।
मौषधम् । अनिवेद्य न भुञ्जीत यदाहाराय कल्पितम् अनिवेद्य हरेर्भुञ्जन् सप्तजन्मानि नारको' । स्मृति: 'भक्त चणःक्षणो विष्णोः स्मृतिः सेवा स्ववेश्मनि । स्वभोज्यस्यार्पण दानं फलमिन्द्रादिदुर्लभम् ' । स्वभोज्यस्य मनूक्तवैश्वदेवाद्यशिष्टरूपस्य | यथा 'अ स केवलं भुङ्क्ते यः पचत्यात्मकारणात् । यज्ञे शिष्टाशनं ह्येतत् सतामत्र विधीयते । भुक्तवत्सु च विप्रेषु स्वेषु भृत्येषु चैव हि । भुञ्जीयातां ततः पश्चादवशिष्टन्तु दम्पती' । अतएव स्मृतिः । 'यस्य चाम्नौ न हयेत यस्य चाग्रं न दीयते । न तद्भोज्यं द्विजातीनां भुक्का तूपवसेदह:' । शङ्खलिखितौ । ' न तदश्रीयादयदव दैवपितृमनुष्यार्थं न कुर्य्यादिति । अत्र पित्रार्थमित्यनेन पितृवलिनित्यश्राद्धावशिष्ट प्रतीयते । व्यक्त मार्कण्डेयपुराणे । 'देवतातिथिभृत्येषु भूतेष्वभ्यागतेषु च । अभुक्तवत्सु येऽश्वन्ति तद्दत्पित्त्रग्निपचिषु । दुष्टान्नपूयनिर्यासभुजः शूचीमुखास्तु ते 1 जायन्ते गिरिवर्माणः पश्येते यादृशा नराः । नरा इत्यत्र कर्मकर्त्ततोभयप्राप्तौ कर्त्तृत्वमेव । 'श्रपादानसम्प्रदानकरणाधारकर्मणाम् । कर्त्तुश्चान्योन्यसन्देहे परमेकं प्रवर्त्तते' इति संक्षिप्तसारात् । ततश्च तदन' विष्णवे निवेद्य भोक्तव्यम् । यत्तु 'पिटशेषन्तु यो दद्यात् हरये परमात्मने । रेतोधाः पितरस्तस्य भवन्ति केशभागिनः' इति भागवतोक्त तत् पितृदत्तप्रतिग्टहीतविषयमिति । मत्स्य सूक्तम् । 'अनिवेद्य न भोक्तव्य' मत्स्यमांसादिकञ्च यत् । पन' विष्ठा पयोमूत्रं यद्दिष्णोरनिवेदितम्' । अनेन स्वभोज्य ं मत्स्यादिदेयमुक्तम् । प्रागुक्त विष्णु पुराणवचनेनानेवंविधं निषिद्धमित्यविरोधः । अतएव अयोध्याकाण्डे श्रीरामवाक्यम् । 'यदवः पुरुषो राजंस्तदन्नास्तस्य देवता:' इति । भागवते 'त्वयोपभुक्तास्रग्गन्ध
1
For Private and Personal Use Only