SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८. एकादशीतत्त्वम्। हादशो स्यादपकर्षस्ततो भवेत्'। अपकर्षः कर्मण इति शेषः । भागवतटीकायाम्। 'कलाहों द्वादशीं दृष्ट्वा निशीथा. दूवमेव हि। आमध्याह्नया: क्रियाः सर्वाः कर्तव्याः शम्भशासनात्'। निशीथात् महानिशायाः। 'विशेषतो निशीथे च शुभं कर्म न शर्मणे । अतो विवर्जयेत् प्राज्ञो दानाटिषु महानिशाम्' इत्यनेन निशीथमहानिशयोरेक त्वश्रुतेः पूर्ववचनेऽरुणोदय इति श्रुतेश्च। स कालश्च स्कान्दनारदीययोः । 'उदयात् प्राक् चतस्रस्तु नाडिका अरुणोदयः'। तथा हलायुधता स्मतिः। 'प्रदोषे घटिकायुग्म प्रभाते घटिकाहयम्। दिनवत् सर्वकर्माणि कारयेत्र विचारयेत्'। अवापि सामर्थ कात्यायनः। 'सन्ध्यादिकं भवेन्नित्यं पारणन्तु निमित्ततः । अद्भिस्तु पारयित्वा तु नैत्तिकान्से भुजिक्रिया'। देवलः । 'सङ्कटेरिक्षये प्राप्त हादश्यां पारयेत् कथम्। अनिस्तु पारणं कृत्वा पुनर्नक्तं न दोषभाक्'। नक्त नतव्रतम् ! एतदप्युपलक्षणं सङ्कल्पविषये इत्युपक्रमात्। अद्भिः पारणविधानात्तनियमः। हादश्यनिगमे तु नारदीयं त्रयोदश्यान्तु शुद्धायां पारणं पृथिवीजलम् । शतयज्ञाधिकं वापि नरः प्राप्नोत्यसंशयम्'। पारणं तुलसौमिथितनैवेद्येन कुर्यात् । तथाच स्कन्दपुराणम् । 'कृत्वा चैवोपवासन्तु भोक्तव्यं द्वादशी. दिने। नैवेद्य तुलसौमिशं हत्याकोटिविनाशनम्'। अस्य व्रतस्य न वतिनां व्रते इति विष्णुवचनादशीचेऽपि कर्त्तव्यता अत्र वतिनामारब्ध व्रतिनामित्यर्थतया अशौचे प्रारम्भो न कार्यः । विष्णुधर्मोत्तरे। 'असम्भाष्थान् हि सम्भाष्य तुलस्याः कलिकाद लम्। आमलक्या: फलं वापि पारणे प्राश्य शुध्यति'। संवत्सरप्रदीपे। 'यस्य नाभौ स्थितं पत्रं मुखे शिरसि कर्णयोः। तुलसीसम्भवं नित्यं तीर्थे स्तस्य मखैच For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy