________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एकादशीतत्त्वम्।
धान्ता चतुःपाखें श्रीकृष्णं यो नमेवरः। साष्टाङ्गप्रणिपातेन तस्य मुक्तिः करे स्थिता'। स्मतिः। 'अध्यं कृत्वा तु अङ्घन य: करोति प्रदक्षिणम्। प्रदक्षिणी कृता तेन सप्तहोपा वसुन्धरा'। वामनपुराणे। 'प्रदक्षिणं यस्त्रि: कुयात् साष्टाङ्गकप्रणामकम् । दशाखमेधस्य फलं प्राप्याबाव संशयः। नारसिंहे। 'उरसा शिरसा दृश्या वचसा मनसा तथा। पद्धयां कराभ्यां जानुभ्यां प्रणामोऽष्टाङ्ग ईरितः' । विष्णुधर्मोत्तरे। 'जानुभ्याञ्चैव पाणिभ्यां शिरमा च विच. क्षणः। कृत्वा प्रणामं देवेशे सर्वान् कामानवाप्रयात्' । 'के धृताञ्जलिभिर्नेमुः' इति भागवतीयात्। शिरोऽञ्जलिसंयोगोऽपि नमस्कार: स्मतिः। 'टेवताप्रतिमां दृष्ट्वा यतिञ्चैव विदण्डिनम् । नमस्कार न कुशेदपथासेन शुद्धति' । ब्रह्म पुराणे । 'यत् किञ्चित् क्रियते कर्म सदा सकतदुष्क तम् । तत् सर्वं त्वयि संन्यस्त तत्प्रयुक्तः करोम्यहम्' इत्यनेन समर्पयेत् । भागवते । 'मन्त्रहीन क्रियाहीनं भक्तिहीनं जनार्दन ।। यत् पूजितं मया देव ! परिपूर्ण तदस्तु मे'। पूजानन्तरं शङ्खपूजामाह मन्वतन्त्र प्रकाशे। पूजयगन्धपुष्पाद्यैः शङ्खवै देववद् बुधः'। नारसिंहे 'अत:प्रभृति निर्माल्यं मा लङ्घय महामते ! । नरसिंहस्थ देवस्य तथान्येषां दिवौकसाम्। भविष्य । 'यश्च पूजयते देवान् ब्राह्मणो द्रव्यलोमतः। भूत्वा भरत. शार्दूल म याति नरकं ध्वम्'। भृत्या वेतनेन। टेवलः । 'इष्टं दत्तमधौतञ्च तप्तं वाध्यात्मनातपः। प्रयच्छत्य परभ्यच धनार्थ धर्मविक्रयो'। संवत्सरप्रदीपे। 'विष्णालयसमीपस्थान् विष्णुसेवा समागतान् । चाण्डालान् पतितान् वापि न स्पृष्ट्वा नानमाचरेत् । उत्म वे वासुदेवस्य सायाद योऽशुचि अध्या। तादृशं कश्मलं दृष्ट्वा सवासा जलमाविशेत् ।
For Private and Personal Use Only