________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एकादशीतस्त्वम् ।
रोकममध्यस्थ शङ्खचक्रगदाधरम्। एकाग्रमानसो ध्यात्वा विष्ण कुर्य्याज्जपं हिजः'। तथा 'अष्टाक्षरस्य मन्त्रस्य ऋषिर्नारायणः स्वयम्। छन्दश्च देवी गायत्री परमात्मा च देवता। नमो नारायणायेति मन्त्रः सर्वार्थसाधकः । भक्तानां भजतां तात खर्गमोक्षप्रदायकः'। जपमानसे चेति गणपाठात् व्यक्तवचने मानसे च जपशब्दार्थसिद्धिः । देवतां ध्यायन् जपं कुर्यात् इत्यादिना ध्यानमत्राङ्गमुक्तम्। यत्तु । 'मन्त्रार्थ चिन्तनाभ्यास: स उक्तो मानसो जपः'। इत्यनेन शब्दार्थयोश्चिन्तनमुक्तम्। तत्रापि जपशब्दबलात् शब्दचिन्तनं प्रधानम् अर्थचिन्तनन्त्वङ्गम्। तथाच योगियाज्ञवल्काः । 'वाच्यः स ईश्वरः प्रोक्तो वाचक: प्रणवः स्मृतः । वाचकेऽपि च विज्ञाते वाच्य एष प्रसौदति'। अतएव 'मनसा धारयन् मन्त्रं जिह्वोष्ठौ नैव चालयेत्। प्रभावे त्वक्षमालायाः कुशग्रन्थया च पर्वणा'। हारीतः। 'मन्त्रार्थज्ञो जपन् जुह्वत्तथैवाध्यापयन् हिजः। स्वर्गलोकमवाप्नोति नरकन्तु विपर्यये'। नरकस्थिति निन्दा मन्त्रार्थनानप्रशंसापरा मन्वंकवाक्यत्वात्। न तु सर्वथा निषेधपरा। अन्यथा 'वेदार्थोपनिबन्धृत्वात् प्राधान्य हि मनोः स्मृतम्। मन्वर्थविपरीता या सा स्मतिर्न प्रशस्यते' इति वृहस्पत्युक्तविरुद्धा स्यात्। मनुस्तु क्रमाच्छष्ठयमाह। 'अज्ञेभ्यो ग्रन्थिनः श्रेष्ठाग्रन्थिभ्यो धारिणो वराः। धारिभ्यो ज्ञानिनः श्रेष्ठा ज्ञानिभ्यो व्यवसायिनः'। ग्रन्थिनो ग्रन्थमापेक्ष्य पाठिनः। धारिणस्तदनपेक्षपाठिनः । ज्ञानिनोऽधीतशास्त्रार्थज्ञाः। एवं 'वेदस्याध्ययनं सर्व धर्मशास्त्रस्य चापि यत्। अज्ञानतोऽथ तत्सर्वे तुषाणां कण्डनं यथा' इति व्यासवचनं तथैव व्याख्येयम् । व्यवसायिनः शास्त्रार्थानुष्ठायिनः। जपविधिमाह पुरचरण
७-क
For Private and Personal Use Only