________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एकादशीतत्वम्।
तिता' नारसिंहे। 'अपर्युषितनिश्छिद्रैः प्रीक्षितैजन्तुवर्जितैः । अात्मारामोद्भवैर्वापि पुष्प: संपूजयेद्धरिम्' देवीपुराणम् । 'स्वयं पतितपुष्पाणि त्यजेदुपहतानि च'। शातातप: 'शिवे विवर्जयेत् कुन्दमुन्मत्तञ्च हरौ तथा। देवीनामर्कमन्दारी सूर्यस्य तगरन्तथा'। विष्णुधर्मोत्तरे 'धर्मार्जितधनकोतैः ब: कुर्यात् केशवार्चनम् । उहरिष्यत्यसन्दिग्धं दशपूर्वान् दशापरान्' । नारसिंहे 'मलिकामालती जाती केतकाशोकचम्यकैः। पुनागनागवकुलैः पद्मरुत्पलजातिभिः। तुलसीकरवीरैश्च पलाशावन्तिककैः। एतैरन्यैव कुसुमैः प्रशस्तै. रच्युतं नरः। अर्चन् दशसुवर्णस्य प्रत्येकं फलमापयात् । पुन्नागः पुनान मिथिलायां प्रसिद्यः। नागो नागकेशरः । 'नारदोसप्तसाहस्रैर्मालतीवकुलाशोकशेफाली नवमालिका। अम्लानतगराङ्कोच मल्लिका मधुपिण्डि का। अधिकाः षट्पदं कुन्दं कदम्ब मधुपिङ्गलम्। पाटला चम्पक कृष्ण लवङ्गमतिमुक्तकम्। केतकं कुरुवकं विल्वं कारं करकं हिज। पञ्चविंशतिपुष्पाणि लक्ष्मीतुल्यप्रियाणि मे'। कुरुवकं रक्तझिण्टिकम्। यत्तु 'सुरमीणि तथान्यानि वर्जयित्वा च केतकीम् इति वामनपुराणवाक्यं तवरसिंहेतरावतारविषयम् । 'केनको पत्रपुष्पञ्च भृङ्गराजस्य पत्रकम् । तुलसी कृष्णतुलसी सद्यः स्तुष्टिकरं हरेः' इति नरसिंहपुराणात्। वामनपुराणे 'पारिभाद्र पाटला च वकुलं गिरिशालिनी। तिलकं जम्बुवनजं पोतकं तगरत्वपि। एतानि हि प्रशस्तानि कुसमान्यच्यतार्चने'। गिरिशालिनो अपराजिता। जम्बुवनजं खेतजवापुष्पम् । विष्णुधर्मोत्तरे। रक्ताशोकस्य कुसुममतसौकुसुमं तथा'। अतसी शनः तथाच 'चम्पकस्य च देयानि तथा भूचम्पकस्य च'। आग्नेये। ‘पद्मान्यम्बुसमुत्थानि रानीले
For Private and Personal Use Only