________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एकादशीतत्त्वम् ।
मैव च । पूजायामाहुती चैव सर्वत्रायं विधिः स्मृतः'। विठः स्वाहा। स्मृतिः। पत्रत्रयान्विता दूर्वा प्रशस्ता चायकर्मणि'। कालिकापुराणम्। 'यहीयते च देवेभ्यो गन्धपुष्यादिकं तथा। अध्यंपावस्थतोयेन चाभिषिच्य तदुत्सृजेत्' । विष्णुधर्मोत्तरे। 'चन्दनागुरुकर्पूरं मृगसारन्तथैव च । जातीफलं तथा दद्यादनुलेपनकारणात्। अतोऽन्यत्र दातव्यं किञ्चिदेवानुलेपनम्' । विष्णुधर्मोत्तराग्निपुराणयोः। सुगबैश्च मुरामांसी कपूंगगुरुचन्दनैः। तथान्यैश्च शुभेद्रव्यैरर्चयेन्जमतीषतिम्'। कालिकापुराणे। यद्यपि देव्या इत्युपकम्य नैवेद्यादौ दिनियम उक्तस्तथापि भाकाझाया अवाप्यन्वेति । यथा 'नैवेद्यं दक्षिणे वामे पुरतोऽपि न पृष्ठतः। दीपं दक्षिणतो दद्यात् पुरतोऽपि न वामतः । चामतस्तु तथा धूपमग्रे वा न तु दक्षिणे। निवेदयेत् पुरोभागे मन्ध पुष्यञ्च भूषणम्। दोपच्च तथा स्थापयेच यथा छायां न चाश्रयेत्। विभौतकार्ककारञ्जनहीच्छायां न चारयेत्। स्तम्भदोषमनुष्याणामन्येषां प्राणिनां तथा' इति प्रयोगसारात्। संवत्सरप्रदीपे। 'यो हि भागवतो भूत्वा कलौ तुलसिचन्दनम्। न चापयति वै विष्णौ न स भागवतो नरः'। प्राग्नेये। 'चन्दनागुरुकपूरकुमुमोशौरपद्मकैः । अनुलिप्तो हरिभक्त्या वरान् भोगान् प्रयच्छति। कालेयक तरुष्कञ्च रक्तचन्दनमेव च। नृणां भवन्ति दत्तानि पुण्यानि पुरुषोत्तम'। विष्णुधर्मोत्तरे। 'अनुलिप्तं जगनाथं ताल-' वृन्तेन वोजयेत्। वायुलोकमवाप्नोति पुरुषस्तेन कर्मणा । चामरैर्वीजयेद् यस्तु देवदेवं जनार्दनम्। तिलप्रस्थप्रदानस्थ फलं प्रापोत्यसंशयः'। राघवभट्टतं 'शङ्खपानस्थितं गन्ध मोदद्यात् कनिष्ठया। कनिष्ठाङ्गलिसंयुक्ता गन्धमुद्रा प्रको:
For Private and Personal Use Only