________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दौसातत्त्वम्।
६४८
शास्त्रार्थतत्त्ववित् । परोपकारनिरतो जपपूजादितत्परः । इत्यादि गुणसम्पन्नो गुरुरागमपारगः। वामनः कायवसुभि गुरुशुश्रुषणे रतः। एतादृशगुणोपेतः शिष्यो भवति नापरः' । होममूले। 'चोर्णाचारवतो मन्त्री ज्ञानवान् सुसमाहितः । ब्रह्मनिष्ठोऽतिविख्यातो गुरुः स्याद्भौतिकोऽपि च'। भौतिकोऽपि देवयोन्यपसेवकोऽपि। 'देवताचार्यशश्रूषां मनो. वाक्कायकर्मभिः। शुद्धभावो महोत्साहो बोहाशिष्य इति स्थितः'। दैवं कर्म यजुः कुर्यात् स इति पूरणीयम्। 'न तूपदेश्यः पुत्रश्च व्यत्ययो वस्तुदस्तथा'। व्यत्ययो परस्परविद्यादायो। प्रयोगसारे। 'तत्रापि भक्तियुक्ताय पुचाय वस्तुदाय च। एतानि राघवभतानि। महाकपिलपञ्चरात्र नारदीययोः। 'मन्त्र यः साधयेदेकं जपहोमार्चना. दिभिः। क्रियाभिर्भूरिभिस्तस्य सिद्धन्त्यन्येऽप्यसाधनात् । मम्यक्सिडैकमन्त्रस्य नासिद्धमिह किच्चन। बहुमन्त्रवतः पुस: का कथा हरिरेव सः'। पिङ्गलामते। 'मननं विखविज्ञानं नाणं संसारबन्धनात्। यत: करोति संसिव मन्त्र इत्यभिधीयते'। अन्यत्रापि। 'प्राप्तोपदेशतो मन्त्रो मननाज्जपनादपि। सिद्धिप्रदः साधकानां पूजाहोमादिक विना'। यमः। 'पुण्याहं वाचयेई वे ब्राह्मणस्य विधीयते'। व्यास:। 'संपूज्य गन्धपुष्पाद्यैाह्मणान् स्वस्ति वाचयेत्। धर्म्य कर्मणि माङ्गल्ये संग्रामाद्भुतदर्शने'। पूजाधारमाह पद्मपुराणम्। 'शालग्रामशिलारूपो यत्र तिष्ठति केशवः । तब देवाऽसुरा यक्षा भुवनानि चतुर्दश'। अत्र सर्वसानिध्या. दत्र तेषां पूजा प्रतीयते। तत्रावाहनविसर्जने नस्तः । 'शालग्रामे स्थावरे वा नावाहनविसर्जने'। इति राघवभतात् । बौधायनः । 'प्रतिमास्थानेष्वपस्वग्नौ नावाहनविसर्जनमिति'।
५५-क
For Private and Personal Use Only