________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६५०
दोचातत्त्वम् ।
पूजाप्रदीपे । 'अनुक्तकल्पे यन्त्रन्तु लिखेत् पद्म' दलाष्टकम् | षटकोणकर्णितं तत्र वेदद्वारोपशोभितम् । अत्रावाहनप्रति ष्ठाविसर्जनानौति शेषः । उपचारद्रव्याणि शारदायाम् । 'पार्थ श्यामाकदूर्वाञ्च विष्णुक्रान्ताभिरौरितम्' । विष्णुक्रान्ताऽपराजिता । श्यामाकादियुक्त जलमिति शेषः । 'गन्धपुष्पाक्षतयवकुशाग्रतिलसर्षपैः । सर्वैः सर्वदेवानामर्घ्य मेतदुदौरि तम्' । गन्धादियुक्तं जलमित्यर्थः । 'जातीलवङ्गकक्कोलेजलमाचमनीयकम् । दधिमध्वाज्यसंमिश्र मधुपर्क विनिर्दि शेत् । गन्धचन्दनकर्पूरकालागुरुभिरौरितः । पुष्पाणि तान्येव देयानि शास्त्रान्तरेऽवगम्यानि । 'गुग्गुल्वगुरुकोशोरशर्करामधुचन्दनैः । धूपं गन्धाम्बुसंमिश्रैर्नीचैर्देवस्य साधकः । उशौरं वीरणमूलम् । साधकः पूजाकर्त्ता । राघवभट्टष्टतम् । 'सर्वोपचार वस्तूनामलाभे भावनैव हि । निर्मलेनोदकेनाथ पूर्णतेत्याह नारदः । नारसिंहे । 'खाने वस्त्रे च नैवेद्यं दद्यादाचमनीयकस्' । देवीपुराणम् । 'यहीयते च देवेभ्यो गन्धपुष्पादिकं तथा । अर्घ्यपात्रस्थितस्तोयैरभिषिच्य तदुत्सृजेत्' । शारदायाम् । 'मन्त्राणां दश कथ्यन्ते संस्काराः सिद्दिदायिनः । जननं जीवनं पश्चात्ताड़नं बोधनं तथा । अथाभिषेको विमलीकरणाप्यायने तथा । तर्पणं दीपन गुप्तिर्दशैता मन्त्रसंस्क्रियाः । मन्त्राणां मातृका यन्त्रादुहारो जननं स्मृतम् । प्रणवान्तरितान् कृत्वा मन्त्रवर्णान् जपेत् सुधीः । एतज्जीवनमित्याहुर्मन्त्र तन्त्रविशारदाः । मन्त्रवर्णान् समालिख्य ताइयेच्चन्दनाम्भसा । प्रत्येकं वायुना मन्त्री ताड़न तदुदाहृतम्' | लिखनविधिमाह दानसागरे । 'शुभे नक्षत्रदिवसे शुभे चापि दिनग्रहे । लेखयेत् पूज्य देवेशान् रुद्रब्रह्मजनार्दनान् । पूर्वदिग्वदनो भूत्वा लिपिनो लेखको
।
For Private and Personal Use Only