________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यजुर्वेदिवषोत्सर्गतत्त्वम्।
६४३
तानुज्रया विना'। एष परिसमूहनादिपर्युक्षणान्तो विधिः यत्र क्वचित् राधकर्मणि होमो विधीयते तत्र भवति तथा पारस्करः अन्वारब्धम् आघाराज्यभागौ महाव्याहृतयः सर्व. प्रायश्चित्तं प्राजापत्यं विष्टिकञ्चैतनित्य सर्वत्रेति ब्रह्मा दक्षिणबाहुना दक्षिणवाह्वन्वारब्धहोतरि प्रजापतीन्द्रदेवताके अाघारसंज्ञके चाहुती तत्र पूर्वाहुतिर्वायुकोणादारभ्याग्निकोणं यावत् अविच्छिनतधारया सुवेण परा नैऋतकोणादारभ्य ऐशानीं यावत् प्राधारेण सामर्थात् तधाचोक्त 'प्राचावघारौ विदिशावेके' इति। विदिशावेव कर्तव्यौ सट्टष्टत्वादिति हरिशर्मप्रभृतयः। अग्निसोमदेवताके प्राज्यभागसंज्ञके इति। तत्राहुतिरग्नेरुत्तरभागे परा दक्षिणभागे एते प्रागग्रे प्राज्यभागावधिकत्ये अग्नये स्वाहेत्युत्तरतः सोमायेति दक्षिणतः प्रागयां जुहुयादिति सूत्रात् । एतयोमध्येऽन्याश्चातयः तथाच सांख्यायनमूत्रम् 'उत्तराग्नेयं दक्षिणे सौम्यं मध्येोऽन्या आहुतयः' इति। महाध्याहृतयो भूराद्या व्यस्तसमस्ताश्च तयोर्व्याहतयः सर्वप्रायश्चित्तम् ओं त्वमनोऽग्ने ओं सत्वं नोऽग्ने ओम् प्रयाशाग्ने l ये ते शतम् ओम् उदुत्तममितिमन्वैवरुणदेवताकाः पञ्चाहुतयः प्राजापत्य प्रजापतये स्वाहेति स्विष्टिवदग्नये विष्टिकते स्वाहेति चकारात् जुहुयादित्यन्वयः एतदुक्तं दशाहुतिक कर्म नित्यम् आवश्यकम् अवश्यम्भावि सर्वतद् गृह्योक्तहोममात्रे स्विष्टिक्वडोमस्य विशेषमाह म एव प्रामहाव्याहृतिभ्यः खिष्टिकदन्यच्चेदाहुतिरिति स्थालोपाकहविश्चेत्तदा महाव्या. हृतिहोमात् पूर्व तेन हविषा स्विष्टिकडोमः। केवलाज्यहोम तु सर्वाहुतिशेष महाव्याहृत्यादयस्तु सर्वत्राज्येनैव परिभाषासिदत्वात् इति तथा च छन्दोगपरिशिष्टम् 'प्राज्य द्रव्यमना
For Private and Personal Use Only