________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
६४२
यजुर्वेटिवृषोमगतत्त्वम् ।
भ्य क्ष्य प्रणीतोदकेनेति शेषः। पुन: प्रतप्य पूर्ववत् प्रतप्य उत्तरतो निदध्यात न तु वाचस्पतिमिश्रोक्तं दक्षिणत पासा. दनम्। आखलायनसांख्यायनापस्तम्बोने वर्हिषि सवोत्तरतो निदध्यात् चर्वोश्च उदगुहासनम् आज्योत्तरतो निधानञ्च उत्पूयावक्ष्येति पूर्ववत् रहौतमाज्यं सवितुस्त्वं ति वारत्रयमुत्पूयोत्तोल्य तदेव चावक्ष्यालोय प्रोक्षणीश्च पूर्ववदिति प्रोक्षणीः स्थापिताः पश्चादानीय प्रोम् सवितुर्व इति मन्त्रेण ताभ्यां पवित्राभ्यां तदुत्पुनाति तथाच सांख्यायन: 'प्राज्य मुद्दास्य उदगग्रे पवित्रे धारयन् अङ्ग ठोपकनिष्ठाभ्यामुभवतः प्रतिगृह्य ऊर्वाग्रे प्रह्वे कत्वा आज्ये उहास्यति ओम् सवितुस्त्वा प्रसवम् उत्पुनात्वच्छिद्रेण वसोः सूर्यस्य रश्मिभिरित्याज्य संस्कारः । सर्वत्र नासंस्कृतेन जुहुयादिति श्रुतितः ओम् मवितुर्व इति प्रणीताः प्रोक्षणोश्चेति उपयमनकुशानादाय समिधोऽभ्या. धाय पर्युक्ष्य जुहुयादिति । उपयमनं संयमनमिधास्त्र समिधामुबन्धनं यैः कुशैः क्रियते उपयमनकुशान्तानादाय दक्षिणपाणिना गृहीत्वा वामे पाणी संस्थाप्य तथाच आश्वलायन गृह्यपरिशिष्ट 'समूलान् दर्भानादाय इभबन्धः कुशेन तु । होमकाले तथा मुक्वा सव्ये पाणौ च वेष्टितान्। ताः समिधोऽभ्याधाय उत्तिष्ठन्नग्नी तूष्णीं प्रक्षिप्य उपविशेत् । पर्यक्ष्य उदकेनाग्नि परिसर्वतो भावेन वेष्टयित्वा जुहुयात अघासदौनिति शेषः । होमे देवतोद्देशमाह कठसंवादिनी स्मति: 'आदौ च देवतोह शस्त तिरौकठशाखिनोः। काण्व . माध्यन्दिनानाञ्च पश्चादुल्लेखयेत् सुरान्'। स्मत्यर्थसारमदन पारिजातयोः 'सनिधो यजमानः स्यादुद्दे शत्यागकारकः । असबिघौ तु पनी स्यादुद्दे शत्यागकारिका। 'असन्निधौ तु पत्नयाः स्यादध्वर्युतदनुन्नया। उन्मादे प्रसवे चत्तौं कुर्वी.
For Private and Personal Use Only