________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यजुर्वेदिषोत्सर्गतत्त्वम्। 'प्राग्वा ब्राह्मण तीर्थेन हिजो नित्यमुपस्पृशेत्'। अत्र हिज. स्वैवाचमने ब्राह्मातीर्थोपादानात् स्त्रोशूद्रयोन तेनाचमनम् एवमेव मिताक्षरायां व्यक्तमुक्तं मरीचिना 'स्त्रियास्वैदशिकं तीर्थ शूदजातेस्तथैव च। सदाचमनाच्छुद्धिरेतयोरेव चोभयोः' इति। एतदनन्तरम् इन्द्रियादिस्पर्शनन्तु ब्राह्मणवदेव प्रमाणान्तरन्तु वाजसनेयिसामगथाबाङ्गिकतत्त्वयोरनुसन्धेयम्। इति वन्यघटीय श्रीहरिहरभट्टाचार्यात्मज श्रीरघुनन्दनभट्टाचार्यविरचितं शूद्राह्निकाचारतत्त्वं
समाप्तम्।
यजुर्वेदिषोत्सर्गतत्त्वम् ।
प्रणम्य सच्चिदानन्दं वृषोत्सर्गे यजुर्विदाम् । प्रमाणकत्ययोस्तत्त्वं वक्ति श्रीरधनन्दनः ॥ पारस्करः। 'अथ वृषोत्सर्गो गोयन्ने व्याख्यात इति' । गोयन्ने शूलगवमभिधाय एतेनैव गोयजो व्याख्यात: पायसेन चरुणाऽर्थलुप्तस्तस्य तुल्यवया गौर्दक्षिणा इति सूत्रोक्तः एतेन शूलगवोक्ताग्नेयादि नवनामकरुद्रदैवतहोमेन तथाच सूत्रं 'स्थालौपाकमिशाण्यवदानानि जुहोत्यग्नये रुद्राय सर्वाय पशुपतये उग्राय अशनये भवाय महादेवाय ईशानाय इति च' अत्र सर्वशब्दो दन्त्यादिः अशनिशब्दवेदन्तः शतपथश्रुतौ षष्ठ. काण्डे तथादर्शनात् वाचस्पतिमिश्रोऽप्येवम्। अवदानानि पशोहदयमांसानि तत्र पायसेनेत्यभिधानात् शूलगवप्राप्तमांसाद्यप्राप्तिः तदप्रास्या च नवदेवतातिरिक्तानां शूलगव
For Private and Personal Use Only