________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
६३४
शूद्रत्य विचारणतस्त्वम् ।
अतएव स्वित्रधान्येन व्यवक्रियते । 'कन्दुपक्कानि तैलेन पायसं दधिशक्तवः । द्विजैरेतानि भोज्यानि शूद्र गेहजतान्यपि । इति कूर्मपुराणवचने शूद्रकर्त्त के कन्दु पक्का देर्ब्राह्मणभक्ष्यत्वेन श्रहे देयत्वं युक्तम् । कन्दुपक्क' जलोपसेकं विना केवलपावेच यद्दह्निना पक्कम् । पायसं पाकेन काठिन्यविकारापनं दुग्ध परमानपरत्वे पुलिङ्गनिर्देशापत्तेः । तथा चामरः 'परमावन्तु पायसः' इति 'दिनत्रयोदये प्राप्ते पाकेन भोजयेद्विजान् । अयं विधिः प्रयोक्तव्यः शूद्राणां मन्त्रवर्जितः । इति श्रा चिन्तामणिष्टतवराहपुराणवचनमपि कन्दुपकपरम् एवन्तु एतदचनं सच्छूद्रपरं मैथिलोक्त' डेयम् । एवम् श्राममांसस्यापि श्राद्धे देयत्वं सामगश्राद्धतत्त्वेऽनुसन्धेयं तत्र द्रव्यदेवता प्रकाशार्थं ब्राह्मणेन मन्त्राः पाठ्या: 'अयमेव विधिः प्रोक्तः शूद्राणां मन्त्रवर्जितः । श्रमन्त्रस्य तु शूद्रस्य विप्रो मन्त्रण गृह्यते' । इति वराहपुराणात् श्रयं श्राद्धेतिकर्त्तव्यताको विधिः शूद्रकर्त्तक मन्त्रपाठरहितः शूद्रस्य मन्त्रपाठानधिकारसिद्दी यदमन्त्रस्येति पुनर्वचनं तत् स्त्रियाग्रहणार्थं परिभाषा - र्थञ्च ततच तत् कर्म सम्बन्धिमन्त्रेण विप्रस्तदीयकर्म कारयिटब्राह्मणो गृह्यते तेन ब्राह्मणेन तत्र मन्त्रः पठनीय इति तात्पर्यं तत्र यजुर्वेदिको मन्त्रः तथा च स्मृति: ' आर्षक्रमेण सर्वत्र शूद्रा वाजसनेयिनः । श्रस्माच्छूद्रः स्वयं कर्म यजुर्वेदीव कारयेत्' । श्रार्षक्रमेण मुन्युक्तक्रमेण यजुर्वेदिसम्बन्धि गृह्यादिना । 'चतुर्णामपि वर्णानां यानि प्रोक्तानि वेधसा | धर्मशास्त्राणि राजेन्द्र ! शृणु तानि नृपोत्तम । विशेषतस्तु शूद्राणां पावनानि मनीषिभिः । अष्टादश पुराणानि चरित राघवस्य च । रामस्य कुरुशार्दूल धर्मकामार्थसिद्दये । तथोक्तं भारतं वीर पाराशर्येण धीमता । वेदार्थं सकलं
1
For Private and Personal Use Only