________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
शूद्रक्कत्य विचारणतत्त्वम् ।
६३३
कर्मणि माङ्गल्ये संग्रामाद्भुतदर्शने' । धर्म्यं कर्मणीति सप्तमीनिर्देशात्रिमित्तत्वं तत्तत्कर्मोल्लेखः प्रतिष्ठानन्तरं मात्स्ये 'ततः सहस्रं विप्राणामथवाष्टोत्तरं शतम्। भोजयेच्च यथा शक्त्या पञ्चाशद्दाथ विंशतिम् ।
इति महामहोपाध्याय श्रीहरिहरभट्टाचाय्यात्मज श्रीरघुनन्दन भट्टाचार्य्यविरचिते स्मृतितत्त्वे मठप्रतिष्ठादितत्त्व समाप्तम् ।
शूद्रकृत्यविचारणतत्त्वम् ।
20
प्रणम्य सच्चिदानन्दं शूद्राणां न्यायवर्त्तिनाम् । श्राद्दाहः कृत्ययोस्तत्त्वं वक्ति श्रीरघुनन्दनः ॥
तत्र मत्स्यपुराणम् ' एवं शूद्रोऽपि सामान्य वृद्धिश्रान्तु सर्वदा । नमस्कारेण मन्त्रेण कुय्यादामान्नवद बुधः । दानप्रधानः शूद्रः स्यादित्याह भगवान् प्रभुः । दानेन सर्वकामातिरस्य संजायते यतः । ततो दानमेवापेक्षितं न तु भोजनमपि । सामान्य सर्वजनकर्त्तव्यत्वेन प्रतिमासकष्णुपचादिविहितश्राद्धम् आभ्युदयिक श्राद्धञ्च एवं द्विजातिवत् शूद्रोऽपि कुय्यादित्यन्वयः नमस्कारेण मन्त्रेण न तु स्वयं पठितमन्त्रेण श्रमानवदित्यनेन जलसेक सिद्धान्नव्यावृत्तिः 'स्मिन्नमन्त्रमुदाहृतम्' इति वशिष्ठेन सिनस्यैवान्नत्वाभिधानात् कन्दुपक्कस्य भ्रष्टत्वं न तु स्मित्वं हारीतेन खेदनभर्जनयोः पृथक्त्वमुक्तं यथा 'आदीपनतापनस्वेदनभर्जनपचनादिभिः पञ्चमोति' अस्यार्थः प्रदीपनं काष्ठानां तापनं तोयादे: स्वेदनं धान्यादेभर्जनं यवादेः पचनं तण्डुलादेः इति पञ्चमौसूना इति कल्पतरुः
For Private and Personal Use Only