________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३३२
मठप्रतिष्ठादितत्त्वम् ।
पूर्त्तमित्यभिधीयते । इष्टापूर्तं दिजातीनां धर्मः सामान्यमुच्यते । अधिकारौ भवेच्छूद्रः पूर्त्तधर्मे न वैदिके' । वैदिके वेदाध्ययनसाध्येऽग्निहोत्रादाविति रत्नाकरः । यथा नारीत्यनुवृत्तौ बृहस्पतिः ‘पितृव्यगुरु दौहित्रान् भर्तुः स्वस्रीयमातुलान् । पूजयेत् कव्यपूर्त्ताभ्यां वृद्धानाथातिथीन् स्त्रियः । एकदिने प्रतिमामठप्रतिष्ठावास्तुयागानां करणे सक्कदेव मातृपूजादिकं विधेयम् । न च 'एकस्मिन् कर्मणि तते कर्मान्यतायते ततः । इति छन्दोगपरिशिष्टेन एकस्मिन् कर्मणि आरब्धेऽन्य कर्मकरणनिषेधे इति वाच्यं तस्य प्रयोगविषयत्वात् अन्यथा 'गणशः क्रियमाणे तु मातृभ्यः पूजनं सकृत् । सक्कदेव भवेच्छ्राइमादौ न पृथगादिषु' इति इन्दोगपरिशिष्टीयस्य निर्विषयतापत्तिः । अनेकाह साध्यकर्मण्यारब्ध तन्मध्ये कर्मान्तरानुष्ठानापत्तिः मातृपूजाह डिवाइयो: सक्कत्त्वादेत - दन्तरालपठितवसोर्धाराभिपातायुष्य मन्त्र जपयोरपि सक्कत्त्व. मिति । आयुष्यमन्त्राज्ञाने तु गायत्रीजप: । ' जपहोमादि यत्किञ्चित् कृच्छ्रोक्तं सम्भवेन्न चेत् । सर्वव्याहृतिभिः कुयात् गायत्रा प्रणवेन च' इति मिताक्षराष्ट्रतषट्त्रिंशन्मतदर्शनात् । प्रतिमाप्रतिष्ठाविधानञ्च देवप्रतिष्ठातत्त्वेऽनुसन्धेयम् । योगि याज्ञवल्काः ‘ध्यायेन्नारायणं नित्यं स्नानादिषु च कर्मसु । तद्विष्णोरिति मन्त्रेण स्नायादप्सु पुनः पुनः । गायत्री aurat ोषा विष्णोः संस्मरणाय वे' । ध्यायेत् मरेदित्यर्थः स च मन्त्रः ओम् 'तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चतुराततम्' । वामनपुराणे 'सर्वमङ्गलमङ्गल्यं वरेण्यं वरदं शुभम् । नारायणं नमस्कृत्य सर्वकर्माणि कारयेत्' इति । यमः ' पुण्याहवाचनं देवे ब्राह्मणस्य विधीयते' | यम : ' संपूज्य गन्धपुष्पाद्यैर्ब्राह्मणान् स्वस्ति वाचयेत् । ध
For Private and Personal Use Only