SearchBrowseAboutContactDonate
Page Preview
Page 634
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 'मठप्रतिष्ठादितत्वम्। बारुणं लोकमाप्नोति सर्वपापैः प्रमुच्यते'। कुम्भस्थ सर्वपापविमुक्तिपूर्वकवारुणलोकप्राप्तिः फलम्। 'कमण्डलुप्रदानेन गोदानफलमाप्नुयात्' कमण्डलोर्गोदानजन्य समफलप्राप्तिः फलम्। 'पतगृहप्रदानेन सर्वपापमपोहति'। पतदग्गृहञ्च विततामूलादिद्रव्यप्रक्षेपविशेषः। पतदएहस्य सर्वपापहननं फलम् । 'पादुकानां प्रदानेन गतिमाप्नोत्यनुत्तमाम्'। पादुकाया अनुत्तममति प्राप्तिः फलम् । 'दर्पणस्य प्रदानेन रूपवान् दर्पवान् भवेत्'। दपणस्य रूपवहर्षवद्भवनम्। 'दर्शयित्वा तथा तञ्च सुभगस्त्वभिजायते' सुभगत्वकामो विष्णवे दर्पणमहं दयिष्य 'कुप्यदो रूपमाप्नोति विशेषाद् भुवि दुर्लभम्। कुप्यस्य दुर्लभविशेषरूपप्राप्तिः फलम्। 'नरः सुवर्णदानेन सर्वकामानुपाशुते'। सवर्णस्य सर्वकामाशनं फलम्। 'नरदानेन लोकेऽस्मिन् प्रामाण्यमुपगच्छति' । नरस्य प्रामाण्योपगमनं फलम्। 'परलोकमवाप्नोति धेनु दत्त्वा पयखिनौम्'। धेनो: परलोकप्राप्तिः फलम्। 'अनुदुहः प्रदानेन दशधेनुफलं लभेत्'। अनडुद्दानस्य धेनुदशकदानजन्य समफलप्राप्तिः फलम्। 'शय्यासन प्रदानेन स्थिति विन्दति शाश्वतीम्'। शयनस्य शाश्वतस्थितिलाभः फलम् । एवमासनस्य। 'उत्तरच्छददानेन सर्वान् कामानवाप्नुयात् । उत्तरच्छदं प्रावरणवस्त्रम्। उत्तरच्छदनस्य सर्वकामप्राप्तिः फलम्। 'देववेश्योपयोग्यानि शिल्पाभाण्डानि यो नरः । दद्याद्दा वाद्यभाण्डानि गणेशत्वमवाप्नुयात्'। चित्राद्युपयुक्त. शिल्पभाण्डस्य गणेशत्वप्राप्तिः फलम् । एवं वीणादिवाद्यभाण्डस्य । 'प्रेक्षणीयप्रदानेन शकलोकमवाप्नुयात्'। प्रेक्षगीयं नृत्यं तत्पदानञ्च देवसम्मुखे चोरामसीताद्यभिनयोत्पादनं तेन शकलोकप्राप्तिकामो विष्णवे प्रेक्षणीयं प्रेक्षयिष्ये । For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy