________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
६२८
मठप्रतिष्ठादितत्त्वम् ।
फलम् । नरसिंहपुराणे 'त्रिवृत् शुक्तञ्च पौतञ्च पट्टसूत्रादिनिर्मितम् । यज्ञोपवीतं गोविन्दे दत्त्वा वेदान्तगो भवेत् । विवृत् नवगुणं नव वै त्रिवृत् इति श्रुतेः । नन्दिपुराणम् । 'अलङ्कारच यो दद्यात् विप्रायाथ सुराय वा । स गच्छेद्दारुणं लोकं नानाभरणभूषितः । जातः पृथिव्यां कालेन ततो दीपपतिनंरः । सुरायेति पुंस्त्वमविवक्षितम् । अलङ्कारदानेन नानाभरणभूषितत्व पूर्वक वरुण लो क ग न्तु त्वानन्तर दोपपतित्वं फलम् । विष्णुधर्मोत्तरे 'यानं शय्यासनं छत्रं पाटुके चाप्युपानहौ । वाहनं गाञ्च धर्मञ्च त्रिदशेभ्यो ददाति यः । एकैकस्मादवाप्नोति वह्निष्टोमफलं नरः । यानादिप्रत्येक दानेनाग्निटोमयज्ञजन्चफलसमफलप्राप्तिः फलम् ।
:
ब्रह्म
अथ विष्णुसंप्रदानकदानानि । विष्णुधर्मोत्तरे तृतीयकाण्डे 'विष्णोरायतने दत्त्वा तत्कथा पुस्तकं नरः । लोकमवाप्नोति बहन संवत्सरानपि । विष्णुकथा पुस्तकदानेन बहुसंवत्सरब्रह्मलोकप्राप्तिः फलम् । 'विष्णोः शङ्खप्रदानेन बारुणं लोकमाप्रयात्' । शङ्खस्य वाक्गालोकप्रात्यनन्तरमनुष्यलोकख्यातशब्दत्व' फलम् । 'घण्टाप्रदानेन तथा महस्रशतमाप्नुयात् ' घण्टायाः सहस्रशतसंख्यक घण्टाप्राप्तिः फलम् । 'सौभाग्यं महदाप्नोति किङ्किणीं प्रददवरेः । सौभाग्यं पुष्टिः किङ्किणी क्षुद्रवटिका । तस्य महासौभाग्यप्राप्तिः फलम् । वितानक प्रदानेन सर्वपापैः प्रमुच्यते । परं
निर्वृतिमाप्नोति यत्र यत्राभिजायते' । वितानकस्य सर्वपापविमुक्तिपूर्वक परम निर्हतिप्राप्तिः फलम् । 'दत्त्वा तु देवकर्मार्थं नरो वेदों दृढां शुभाम। पार्थिवत्वमवाप्नोति वेदौ हि पृथिवो यतः । वेदोदोल पिरिडका । वेद्याः पार्थिवत्वप्राप्तिः फलम् । 'यः कुम्भं देवकर्मार्थं नरो दद्यान्नवं शुभम् ।
For Private and Personal Use Only