SearchBrowseAboutContactDonate
Page Preview
Page 614
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दिव्यतस्त्वम् । ६०८ देवानां त्वं मुख' ब्रह्मवादिनाम् । जठरस्थो हि भूतानां ततो वेति शुभाशुभम् । पापं पुनासि वै यस्मात् तस्मात् पावका उच्यते । पापेषु दर्शयात्मानमर्चिमान् भव पावक । अथवा शुद्धभावेन शीतो भव हुताशन । त्वमेव सर्वभूतानामन्तचरसि साक्षिवत् । त्वमेव देव जानीषे न विदुर्यानि मानवाः । व्यवहाराभिशस्तोऽयं मानुषः शुद्धिमिच्छति । तदेनं संशयादस्माद्धर्मतस्त्रातुमर्हसि । इत्येतैः फालस्थमग्निमभिमन्त्रयेत् । शोध्यस्तु 'स्वमग्ने सर्वभूतानामन्तश्चरसि पावक । साक्षिवत् पुण्यपापेभ्यो ब्रूहि सत्यं करे मम' । इत्यनेनाभिमन्त्राग्निवर्ण फालं जिह्वया सतत लिह्यात् । न दग्धश्चेत् शुद्धः । अथ धर्मराजविधिः । वृहस्पतिः । ' पत्रइये लेखनीयौ धर्माधर्मौ सितासितौ । जीवदानादिकैर्मन्त्रैर्गायत्रप्राद्यैश्व सामभिः । श्रमन्त्रा पूजयेद्गन्धैः कुसुमैश्च सितासितैः 1 अभ्युक्ष्य पञ्चगव्येन मृत्पिण्डान्तरितौ ततः । समौ कृत्वा नवे कुम्भे स्थाप्यौ चानुपलक्षितौ । ततः कुम्भात् पिण्ड़मेकं ग्टहीयादविलम्बितः । धर्मे गृहीते शुद्धः स्यात् संपूज्यश्च परी - चकैः । जीवदानमन्वस्तु शारदायां 'पाशाङ्कुशपुटाशक्तिर्वायुविन्दुविभूषितायाद्याः सप्तसकारान्ता व्योमसत्येन्दुसंयुतम् । तदन्ते हंसमन्त्रः स्यात् ततोऽमुष्यपदं वदेत् । प्राणा इति वदेत् पश्वादिह प्राणास्ततः परम् । अमुष्य जीव इह स्थितस्ततोऽमुष्यपदं वदेत् । सर्वेन्द्रियाण्य मुष्यान्ते वाङ्मनखतुरन्ततः । श्रोत्रघ्राणपदे प्राणा इहागत्य सुख चिरम् । तिष्ठन्त्वग्निबधूरन्ते प्राणमन्त्रोऽयमीरितः । प्रत्यमुष्यपदात् पूर्व पाशाद्यानि प्रयोजयेत् । प्रयोगेषु समाख्यातः प्राणमन्त्रो मनोषिभिः' । पाशाङ्कुशपुटाशक्तिरित्यनेन प्रथमं पाश. For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy