SearchBrowseAboutContactDonate
Page Preview
Page 606
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दिव्यतत्त्वम् । वरुणेत्यभिशाप्यकम् । नाभिमात्रोदकस्थस्य राहीलोरूजलं विशेत् । मामभिशाप्य शपथं कारयित्वा के जलं विशे' तोरणञ्च निमज्जनसमीपे समे स्थाने शोध्यकर्णप्रमाणोच्छ्रितं काय्यं यथा नारदः 'गत्वा तु तज्जलस्थानं तटे तोरणमुच्छ्रि. तम्। कुर्वीत कर्णमात्रन्तु भूमिभागे समे शु चौ। शरमोचे विशेषमाहतुर्नारदहस्पती 'शरप्रक्षेपणस्थानाद युवाजवसमन्वितः। गच्छेत् परमया शक्त्या यात्रासो मध्यमः शरः । मध्यमं शरमादाय पुरुषोऽन्यस्तथाविधः'। प्रत्यागच्छेत्तु वेगेन यत: स पुरुषो गतः। आगन्तस्तु शरग्राही न पश्यति यदा जले। अन्तर्जलगतं सम्यक् तदा शुद्धिं विनिर्दिशेत् । अन्यथा न विशुद्धः स्यादेकाङ्गस्यापि दर्शनात्। स्थानाहान्यनगमनाद् यस्मिन् पूर्व निवेशयेत्' । जविनी विशेषयति नारदः ‘पञ्चाशतो धारकाणां यो स्यातामधिको जवे। तौ च तत्र नियोक्तव्यौ शरानयनकर्मणि' । एकाङ्गस्य दर्शना. दिति च कर्णाद्यभिप्रायेण 'शिरोमात्रन्तु दृश्येत न करें नापि नासिके। अप्सु प्रवेशने यस्य शुद्धं तमपि निर्दिशेत्' । इति विशेषाभिधानात् निमज्योत्प्लवते यस्तु दष्टश्वेत् प्राणिना नरः। पुनस्तत्र निमज्जेत दंशचिङ्गविचा. रितः' । जलान्तर्गतमस्य जलौकादिना दष्टः समुत्प्लवते यदि तदा दष्टे पुनर्निमज्जनीयमित्यर्थः। पितामहः ‘गन्तु. खापि च कर्तुश्च समं गमनमज्जनम्। गच्छेत्तोरणमूलात्तु शरस्थानं जवो नरः। तस्मिन् गते हितीयोऽपि वेगादादाय शायकम्। गच्छत्तोरणमूलन्तु यत: स पुरुषो गतः । आगतस्तु शरमाही न पश्यति यदा जले। अन्तर्जलगतं सम्यक् ततः शुद्धिं विनिर्दिशेत्'। अत्र मज्जनसमकालगमनाभिधानाच्छरमोक्षसमकालं गमनं शूलपाण्युक्तमयुक्तं मज्जन ५१-क For Private and Personal Use Only
SR No.020750
Book TitleSmruti Tattvasya Part 02
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year
Total Pages694
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy